मानपूर्वकत्वभित्यनुमानानन्तरं शब्दं लक्षयति
वृत्तिरिष्टसाधनताज्ञानजन्या स्वतन्त्रप्रवृत्तित्वादस्मदीयप्रवृत्तिव-
दितीष्टसाधनताज्ञानमनुपाय तदन्वितेऽपि शक्तिप्रसङ्गः' इति
वाच्यम् । इष्टसाधनतालिङ्गककृतिसाध्यताज्ञानस्यैव तन्मते प्रव-
र्तकत्वात् । न च ‘एवं यद्यस्य बोधकं भवति असतिबाधके
तत्तत्र शक्तमिति सामान्यव्याप्त्या घदिपदानां कार्यताविशिष्टघटान-
यनादिकार्ये शक्तिव्युत्पादनेऽपि कार्यान्वितघटादौ शतयव्युत्पाद-
नात् कार्यान्विते शक्तिरिनि प्रतिज्ञाविरोधः इति वाच्यम् । का-
र्यत्वविशिष्टघटानयनादिकार्यज्ञानस्य कार्यान्वितघटविषयकत्वेऽप्र-
तिज्ञाविरोधात् । नचैवं घटपदेनैव कार्यान्वितघटोपास्थाने स्थापने आन
यनादिपदं व्पर्थमिति वाच्यम् । कार्यवेन कार्यान्वितघटोपस्थाप-
नेऽपि बिशेषकार्यलाभाय तदुपादानस्य सार्थकस्वात् । न च घ-.
टमानयेत्यादौ आनयनादिपदानां कार्यवाचकतया स्वान्वयास-
म्भवेन कार्यान्तरस्य चाऽभावेन कार्यान्वितस्वार्थबोधकत्वा-
भावात्-कथं तेषां कार्यान्विते शक्तिग्रह इति वाच्यम् । ‘कार्या
न्विते’ इत्यनेन कार्यान्वयशालिनो विवक्षितत्वात् । न च घटादेः
कर्मत्वेऽन्वयात्-कथं सर्वेषां कार्येऽन्वय इति वाच्यम् । साक्षात्
परम्परासाधारणाऽन्वयस्य विवक्षितवान् । घठकर्मस्वमानयेत्या-
दिनिराकाङ्क्षादिपदसमुदायादपि शाब्दबोधापत्तिः- इत्यपि न
शङ्व्यम्। । आकाङ्क्षादेरपि सहकारित्वकल्पनात् । न च ‘इयं प्रवृत्तिः
कृतिसाध्यस्वरूप-कार्यत्वप्रकारकज्ञानजन्या, इत्युक्तरीत्या कार्यत्व-
ज्ञानस्य प्रवर्त्तकतया कार्यत्वान्विते शक्तिः स्यात्, न तु कार्या
न्विते, तज्ज्ञानस्याऽप्रवर्त्तकंवात् इति वाच्यम् । कार्यान्विते श-
क्तिरित्यादौ कोर्यपदस्य भावव्युत्पत्त्या कार्यत्वान्विते शक्तिरित्य
भ्युपगमात्" इयाहुः । तन्न । कार्येतावाचकालिङ्लोट्तव्यपञ्च
मलकारा (लेड़ा) दिविधिप्रत्ययसमभिव्याहारादेव कार्यत्वान्वित-