हेतुज्ञानानुमानपूर्वकत्वाच्छर्दार्थसम्बन्धग्रहस्य, स्वा- र्थसम्बन्धज्ञानसहकारिणश्च शब्दस्यार्थप्रत्यायकवादनु
ष्टमुपलभ्यं-इयं चेष्टा यत्नजन्या चेष्टात्वात् अस्मदीयहितहित- प्राप्तिपरिहारानुकूलक्रियारूप-चेष्टावदिति तदनुकूलप्रयत्नरूपप्रवृ- त्तिमनुमय-सा प्रवृत्तिजर्ज्ञानजन्या प्रवृत्तित्वादस्मदीयप्रवृत्तिवदिति तत्कारणीभूतं ज्ञानमनुमाय-इदंज्ञानमेतद्वाक्यजन्यमेतद्विनाऽसत्वे सति सत्त्वादिति उक्तवाक्यजन्यत्वमनुमाय-पुनर्घटं नय गामानये त्यादिशब्दश्रवणानन्तरं प्रवृत्तिं • दृष्ट्वाऽऽवापोद्वापाभ्यां घटपदं घटे शुक्लमानयपदमानयने शक्तं ‘लक्षणग्रहाजन्यशक्तिभ्रमाजन्यैत च्छाब्दधीजनकत्वात्संमतवत् , इत्यादिरीत्या बालो घटादिपदस्य शक्तिं गृह्वाति । तीरे प्रयुज्यमाने गङ्गापदे शक्तिभ्रमेण पटे प्रयुज्यमाने घटपदे (अपभ्रंशे) व्यभिचारवारणाय लक्षणाग्रहाजन्य शक्तिभ्रमाजन्येति । एवं रीत्याऽनुमानपूर्वकत्वं शब्दार्थलस्ब- धग्रहस्येत्यर्थः । न च शक्तिग्रहस्यानुमानपूर्वकत्वेपि शाब्दबोधे ऽनुपयोग इत्याशङ्क्याह । स्वार्थसम्बन्धग्रहेत्यादि । स्वस्यार्थेन सम्बन्धः स्वर्थसम्बन्धस्तस्य ग्रहः सहकारी यस्येति विग्रहः ।
{{gap}}प्रभाकरास्तु-"व्यवहरदेवघा व्युत्पत्तिः । उपायान्तरस्य तदधीनत्वात् सा च कार्यान्विते एव । न च घटोद्वपस्थले शुद्धघट- >. स्यैव विषयत्वात्तत्रैव शक्तिरावश्यकीति वाच्यम् । कार्यत्वमविषयी- कृत्य घटाद्यावार्पस्थळे घटबुद्ध्यनुदये उद्वपस्थलेषि कार्यान्वित घटस्यैव विषयस्वाङ्गीकारात् । तथा च बलादिपदं कार्यान्विते शक्तं, नियमेन तदभिधायकस्वात्संमतवन् । घटादिपदं न कार्यान-- विते गृहीतसम्बन्धं तत्र वृद्धेरपयुज्यमानत्वात्, सम्बन्धग्राहकप्रयो- ज्यवृद्धप्रवृत्तिरूपसामग्न्यभावाच्च । नच ’इयं प्रवृत्तिः कृति साध्यस्वरूप-कार्यत्वप्रकारकज्ञानजन्या स्वतन्त्रमवृत्तित्वात् अस्म दीयप्रवृत्तिवत् , इत्येवंरीत्या कार्यान्विते शक्तिच-इयं प्रः