पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
16
श्रीसरस्वतीविलासे

 दण्डः धनदण्डः शारीरदण्डश्च वधस्स्पष्टः । तेन राज्ञा भूरिदक्षिणैः क्रतुभिरिष्टं स्यात् । बहुदक्षिणक्रतुफलं स राजा प्राप्नोतीत्यर्थः । न च यच्छब्दस्य विध्युपघातकत्वे निश्चिते यच्छब्दो यदाग्नेयवन्नेय इति पुरस्तात् स्वत्वनिरूपणावसरे निरूप्यते नच फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम् । अकरणे प्रत्यवायश्रवणात् । तथा च मनुः--

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाऽप्यदण्डयन् ।
अयशो महदाप्नोति नरकं चैव गच्छति ।।

दण्डविधाने नृपत्यादीनां प्रायश्चित्तम्.

 वसिष्ठेन-- दण्डोत्सर्गे राजा एकरात्रमुपवसेत्, त्रिरात्रं पुरोहितः, कृच्छ्रमदण्ड्यदण्डने, पुरोहितस्त्रिरात्रं चेति । अतश्च दुष्टे सम्यग्दण्डः प्रयोक्तव्य इत्युक्तम् ॥

 दुष्टपरिज्ञानं व्यवहारदर्शनमन्तरेण न सिद्ध्यति । तत्परिज्ञानाय राज्ञा व्यवहारदर्शनमहरहः कर्तव्यम्-- अत एव विष्णुः--

 ‘प्रजापरिपालनमेव राज्ञां स्वधर्मः अन्यथा स्वधर्मात्प्रच्यवेत’ इति व्यवहारदर्शनं प्रजापालनार्थत्वात्सन्ध्यावन्दनादितुल्यमित्यभिप्रायः । अत एव याज्ञवल्क्यः--

इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलान् पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम् ॥

 इति । अस्यार्थः इत्युक्तेन प्रकारेण "इष्टं स्यात्क्रतुभिः" इत्यादिना पृथगिति वर्णादिक्रमेणेत्यर्थः । वर्णादिक्रमं तु स एवाऽऽह--