पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
15
व्यवहारकाण्डः

प्रतिगृहं विद्यमानेषु प्रत्येकं स्मार्तकर्मानुष्ठापकेषु जाग्रत्सु एकेन चरितार्थत्वादितरानर्थक्यमिति न्यायो नात्रावतरतीति वक्तव्यम् । तथैवास्मद्ग्रंन्थे न प्रसरत्येवेतरानर्थक्यन्याय इति ममोद्यम इति कारिकार्थः ॥

व्यवहारस्य आचारोपजीव्यत्वम्.

 अत्र व्यवहारस्य आचारोपजीव्यत्वं व्यवहारदर्शननिबन्धनत्वादाचारस्य । तथा हि व्यवहारदर्शनाद्धि दुष्टनिग्रहः । दुष्टनिग्रहे सति वर्णाश्रमधर्मावस्थितिः । तदवस्थितौ सत्यामेव तद्विहितधर्मानुष्ठानमित्याचारस्य व्यवहारोपजीव्यता ॥

प्रथमं व्यवहारकाण्डप्राथम्यम्.

 ततश्चाचारकाण्डाद्व्यवहारकाण्डः प्रथममारब्धः । यद्यपि मन्वादिस्मृतिषु आचारकाण्डः पूर्वं प्रतिपादितः तदनन्तरं व्यवहारकाण्डः तदनन्तरं प्रायश्चित्तकाण्ड इत्येवं क्रमेण निरूपितम् । अस्मिन् स्मृतिसङ्ग्रहरूपे ग्रन्थे तत्तत्स्मृत्यनुसारेण तदुक्तक्रमेण आचारकाण्डनिरूपणानन्तरं व्यवहारकाण्डनिरूपणं युक्तम् । तथापि वीररुद्रगजपतिमहाराजस्याकाङ्क्षानुसारेण प्रथमं व्यवहारकाण्डः प्रक्रम्यते । तत्र व्यवहारदर्शने राज्ञ एवाधिकारः । वर्णाश्रमधर्मनिर्वाहकस्य प्रजापरिपालनस्य दुष्टनिग्रहशीलस्य राजैकनियतधर्मत्वात् । तथा च याज्ञवल्क्यः--

यो दण्ड्यान् दण्डयेद्राजा सम्यक् दण्ड्यांश्च घातयेत् ।
इष्टं स्यात् क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥

[१]

  1. स्मृतिपुराणकर्तारः.