सारेणैव आकांक्षोत्थानात् पणजितयुद्धमाप्तस्वयमागतानां दासानां व्युत्पाद्यत्वं तदुत्थिताकाङ्क्षत्वात् गृहजातादीनां व्युत्पाद्यत्वं तत्प्रसङ्गात्कर्मकरादीनां व्युत्पाद्यत्वमिति तत्स्वरूपमात्रमेव पूर्वप्रकरणे व्युत्पाद्यं । न तु तत्र भृतिदानप्रकार इति स एवात्र प्रपञ्च्यते । तत्र विशेषमाह कात्यायनः--
भृतावनिश्चितायां तु दशभागमवाप्नुयुः ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥
दशभागं-- दशमभागं इत्यर्थः । गोवीर्यं-- पयः यथाक्रमेणेति शेषः । यदि कर्मस्वामी न ददाति तदा त्वाह याज्ञवल्क्यः--
दाप्यतु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥
बृहस्पतिस्तु विशेषमाह--
त्रिभागं पञ्चभागं वा गृह्णीया (द्भा) त्सीरवाहकः ।
इति । अत्र विकल्पार्थमाह स एव--
वस्त्राच्छादभृतस्साराद्भागं गृह्णीत पञ्चमम् ।
जातसस्यात्त्रिभागं तु प्रगृह्णीयादथो भृतः ॥
इति । अयमर्थः-- कृषीवलो जातसस्यात्पञ्चमं भागं गृह्णीयात् तेन यद्यशनाच्छादने निर्वर्त्येते; अन्यथा तृतीयभागमिति पारिभाषिकभृतावपि यदि भृत्यः प्रवीणः तदा किंचिदधिकं देयं । यदा अनिपुणः किंचिन्नेत्याह याज्ञवल्क्यः--
देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दो रिक्थं देयं कृतेऽधिके ॥
अनेकभृनिनिर्वर्त्ये कर्मणि पारिभाषिकभृतेरर्पणप्रकारमाह याज्ञ