पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ वेतनानपाकर्माख्यस्य पदस्य विधिरुच्यते


अत्र मनुः--

अतःपरं प्रवक्ष्यामि वेतनस्यानपाक्रियाम् ।

इति । अतःपरं-- अभ्युपेत्याशुश्रूषाख्यस्य पदस्यानन्तरमित्यर्थः । पूर्वस्मिन् प्रकरणे उपगतपणजितादीनां प्रतिश्रुतनिर्वाहार्थं प्रतिनिधिर्वा कार्य इत्युक्तं । अत्र तु प्रतिश्रुतनिर्वाहार्थं वेतनं कर्तव्यं । अन्यथा तद्वेतनं प्रतिश्रुतमपहरणीयमिति संगतिः । नचास्य दत्ताप्रदानिकेऽन्तर्भावः । तत्र दत्तस्यादत्तप्रायतोक्ता न तु दत्तस्यापहरणं । अतश्चानयोर्भेदः । तदेतदनुसंन्धाय--

अतःपरं प्रवक्ष्यामि वेतनस्यानपाक्रियाम् ।

इत्यत्र 'अतःपरं' इति पदं प्रयुक्तमित्यनुसन्धेयं । तत्र नारदः--

भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्येऽवसाने च कर्मणे (णो) यद्विनिश्चितम् ॥

तुभ्यमिदं दास्यामि इति यद्वेतनं परिमाणतो निश्चितं तत्रेधा विभज्य कर्मणामादिमध्यावसानेषु दद्यादित्यर्थः । ननु कर्मकराणां पूर्वप्रकरण एव तत्स्वरूपनिरूपणावसरे तद्भृति(द्वृत्ति)दानप्रकारश्च तत्रैव वक्तव्य इति चेन्मैवम् । शिष्यदासादिसमानयोगक्षेमतयाकर्मकराणां तत्र स्वरूपमात्रमुपोद्घाततया निरूपितम् । तत्र तद्वेतनप्रदानावसरस्यानाकाङ्क्षितत्वात् । जिज्ञासामसूतं हि व्युत्पाद्यमिति न्यायविदः । दत्ताप्रदानिके यद्वृत्तं तदवलम्ब्यैवाभ्युपेत्याशुश्रूषाख्यस्य पदस्योत्थानमित्युक्तसङ्गतिः । अतश्च तदनु

S.VILASA
38