द्यावष्टम्भेन निर्णयः कर्तव्यः । अत एवोक्तं पितामहेन--
सोत्तरानुत्तरत्वेन व्यवहारो द्विधा मतः ।
इति । एतद्व्याचष्टे नारदः--
'सपणापणभेदाद्व्यवहार' इति ।
द्विप्रकार इति शेषः । अतश्च मानुषप्रमाणदूषणार्थमाशयदोषोद्घाटनेन दिव्यावलम्बने पणबन्धं दत्वा व्यवहारमवष्टभ्यावश्यं दिव्यं देयमवेति ध्येयम् ।
निर्णयकृत्यम्
अत्र निर्णयकृत्यमाह सङ्ग्रहकारः--
उक्तप्रकाररूपेण स्वमतस्थापिताःक्रियाः ।
राज्ञा परीक्ष्य सत्यैश्च स्थाप्यौ जयपराजयौ ॥
यो यथोक्तान्यतमया क्रिययाऽर्थं प्रसाधयेत् ।
भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ॥
असाधयन् साधयित्वा विपरीतार्थमात्मनः ।
दृष्टकारणदोषो वा यःपुनस्स पराजयी ॥
इति । व्यासः--
जितं तु दण्डयेद्राजा जेतुः पूजां प्रवर्तयेत् ।
पूजा च गन्धमाल्यवस्त्रादिना कार्या ।
जेतुःप्रवर्तयेत्पुजां गन्धमाल्याम्बरादिभिः ।
इति स्मृतेः । यत्तु कात्यायनोक्तम्--
शतार्धं दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ।
इति । यदपि विष्णुनोक्तम्--
एतैर्दिव्यजयावधारणे शतार्धं दण्ड्यश्शुद्धः । अशुद्धो दण्डभाक् इति । तत्तु शुद्धस्य दण्डविधानं सपणव्यवहार एव ।