पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
श्रीसरस्वतीविलासे

इति । उत्कटं धृतं विलीनं न भवतीत्यनुद्धृतम् । ततः शोद्ध्यकृत्यमाह यमः--

हस्ताभ्यां तु समादाय प्राड्विवाकसमपितः ।
स्थित्वैकस्मिन् ततोऽन्यानि व्रजेत्सप्त त्वजिह्मगः ॥

एकस्मिन्निति-- पश्चिमे प्रथमे मण्डले । अजिह्मगः-- अकुटिलगतिः ॥

असंभ्रान्तश्शनैर्गच्छेदक्रुद्धस्सोऽनलं प्रति ।

यथाऽऽह याज्ञवल्क्यः--

स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।

इति । सः-- पुरुषः । तं-- तप्तलोहपिण्डं । एवकारेण मण्डलेष्वेव पदन्यासः । मण्डलानतिक्रमं च दर्शयति पितामहः--

न मण्डलमतिक्रामेत् नाप्यर्वाक्स्थापयेत्पदम् ।

इति ।

मण्डलं चाष्टमं गत्वा ततोऽग्निं विसृजेन्नरः ।
यस्त्वन्तरा पातयति दण्ड्यश्च स विभाव्यते ॥
पुनस्तं हारयेदग्निं स्थितिरेषा दृढीकृता ।

प्रथममण्डले स्थितस्य कर्तुरभिमन्त्रणमाह याज्ञवल्क्यः--

त्वमग्ने सर्वभूतानां अन्तश्चरासि पावक ।
साक्षी मत्पुण्यपापानां ब्रूहि सत्यं कवे मम ॥

सत्यं-- ब्रूहि दर्शयेत्यर्थः । अत्रायं प्रयोगः-- सुतप्तमयःपिण्डं उदके लोहशुद्ध्यर्थं निक्षिप्य पुनस्सन्ताप्योदके निक्षिप्य तृतीयतापे सन्दंशेन गृहीत्वा पुनरप्यानीय त्वमग्ने सर्वभूतानामित्यभिमन्त्रणं ब्रूयात् । अस्मिन्नवसरे प्राड्विवाको मण्डलाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय अग्नये पावकायेत्याज्येन