अष्टोत्तरशतं जुहुयात् । अस्मिन्नेवाग्नौ अयःपिण्डताप इति चन्द्रिकाकारः ॥ अष्टमे मण्डले स्थित्वा नवमे अग्नित्यागे कृते किं कुर्यादिति याज्ञवल्क्यः--
मुक्त्वाऽग्निं मृदितव्रीहिरदण्ड्यः शुद्धिमाप्नुयात् ।
अत्र कात्यायनस्तु विशेषमाह--
न स्खलत्यभिशस्तश्चेत् स्थानादन्यत्र दह्यते ।
अदग्धं तं विदुर्देवाः तस्य भूयोऽपि दापयेत् ॥
स्थानादन्यत्र-- हस्ताभ्यामन्यत्रेत्यर्थः । प्रजापतिस्तु--
अन्तरा पतिते पिण्डे सन्देहे वा पुनर्भवेत् ।
हृते तु मर्दयेत्पश्चात् व्रीहीन्वाऽप्यथवा यवान् ॥
यदा गच्छतोऽन्तरा-- मध्ये अष्टममण्डलादर्वागेव पिण्डः पतितः व्रीहियवविमर्दने कृते दण्ड्यादण्ड्यत्वनिर्णयाभावेन सन्देहो भवति तदा पुनर्भवेत् । द्वितीयप्रयोगेऽपि यदा सन्देहो जायते । तदा पुनपुनर्हरेदिति वचनाभावेऽपि न्यायतः प्राप्तं धारणम् । यथाऽऽह विज्ञानयोगी-- पुनः पुनर्हरेदित्यर्थप्राप्तमुक्तमिति । अत्र शुद्धस्य राज्ञा विशुद्धिपत्रं देयम् । अशुद्धस्य दण्डपूर्वकं त्याग एव । तत्र नारदः--
अनेन विधिना धार्यो हुताशनसमस्सदा ।
ऋते गीष्मादहर्व्यक्तकालेऽन्यस्मिन् सुशीतले ॥
इति । हुताशनसमस्तप्तायःपिण्डः । इत्यग्निविधिः ।
जलविधिः
अथ जलविधिरुच्यते । अत्र चन्द्रिकायां-- जलविधिर्विषविधिश्च न प्रतिपादितौ । यथोक्तं चन्द्रिकाकारेण-- जलवि