पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ንኻ ረ सरस्वतीकण्ठभरणं [अध्या● ४. घुघ्ने कृतो लव्धो वा क्रीतो वा कुशले वा प्रायभवो वा सम्भूतो वा रुघ्नोघ्नः ।। राष्ट्रियः ॥ कालात् साधुपुष्प्यत्पच्यमानेषु ॥ १३७ ॥ तत्रेति सप्तमीसमर्थेभ्य. कालविशेपवाचिभ्यः साधु पुष्प्यत् पच्य मानमित्येतेष्वर्येषु यथाविहितं प्रत्यया भवन्ति । हेमन्ते साधु हैमनमनुलेपन हैमन्त हैमन्तिकम्। वसन्ते पुष्प्यन्ति वासन्ताः कुन्दलताः । ग्रैष्म्यः पा टलाः । शरदि पच्यन्ते शारदाः 1 शालयः शैशिरा मुद्भाः ॥ उसे च॥ १३८ ॥ तत्रेति सप्तमीसमर्थात् कालविशेपवाचिन उप्तमित्यतस्मिन्नर्थे ययाविहितं प्रत्ययो भवति । हेमन्ते उप्यन्ते हैमना यवाः । ग्रैष्माः ३यः । अाश्वयुज्या बुङ् ।। १३९ ॥ आश्वयुजीशब्दादुसर्मित्येतास्मन्नर्थ बुझप्रत्ययो भवति । आधयुज्यामुसा आश्वयुजका मापाः !! ग्रीष्मवसन्ताभ्यां वा ॥ १४० ॥ श्रीष्मवसन्तशब्दाभ्यां तत्रोप्तमित्येतस्मिन्नर्थ बुझ्प्रत्ययो वा भ वति ! ग्रैष्मकं सस्यं ग्रैष्मम् । वासन्तकं वासन्तम् ॥ देयमृणम् ॥ १४१ ॥ तवेति सप्तमीसमर्थात् कालवाचिनी देयमित्येतस्मिन्नर्थ ययाविहित प्रत्ययो भवति । मासे देयमृर्ण मासिकम्। आधैमासिकम । सावत्सरिकम् । ग्रैष्मम् । वार्पिकम् । ऋणमिति किम्। मासे देया भिक्षा । कलाप्यश्वत्थयवबुसेभ्यो बुन् ॥ १४२ ।। कलाप्यादिभ्यः कालवाचिम्य सप्तमीसमर्येभ्यो देयमृणमित्येतमिन्नर्थे युन्प्रत्ययो भवति । यस्मिन् काले मयूराः कलापिनो भवन्ति स तत्सlद्दचर्यात् कालः कलापी । तास्मिन् देयमृणं कलापकम्। यस्मिन् कालेsघत्यफलानि सोऽश्वत्यः । तस्मिन् देयमृणम् अश्चत्थकम् । यस्मिन् काले पयसुसानि मवन्ति (तद्) यवबुसम् । तस्मिन् देयमृणं यवबुसकम् ॥