पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/240

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RR सरस्वतंकण्ठाभरणं [अध्यe ४ पथिन्शब्दात् तत्र जात इत्येतस्मिन्नर्थे संज्ञायां गम्यमानायां कन्त्ययः पथश्च पन्थादेशो भवति । पथेि जातः पन्थकः ॥ सिन्ध्ववकरास्यां वा ॥ १२६ ॥ सिन्धु अवकर इलेताभ्यां तत्र जात इत्येतस्मिन्नयें संज्ञायां विपये कन्प्रत्ययो वा भवति । सिन्धुकः सैन्धवः । पक्ष कच्छादिपाठादण् । अवकरकः । अावकरः । पक्षे औत्सर्गिकोऽण् । संज्ञायामिति किम् ! सैन्धवको मनुष्यः ॥ अमावास्यार्थीदश्ध ॥ १२७ ॥ अमावास्यार्थवाचिनस्तत्र जात इत्येतस्मिन्नर्थे संज्ञायामःप्रत्ययः कन् च वा भवति । सन्ध्याद्यणोऽपवादः ! अमावास्यायां जातः अमावास्यकः ॥ अमावास्यः । अामावास्यः । संज्ञायामिति किम् ! अमावास्यः* ॥ स्थानान्तगोशालखरशालाब्लुक्॥१२८॥ स्थानान्तेभ्यः प्रातिपदिकेभ्यः गोशाला खरशाला इत्येताभ्यां च तत्र जात इत्येतस्मिन्नर्थे संज्ञायां समुत्पन्नस्य प्रत्ययस्य लुग् भवति । गो• स्थाने जातः गोस्यानः । गोशाले जातः गोशालः । लिङ्गविशिष्टस्यापि ग्रहणात् गोशालायां जातः गोशालः । एवं खरशालः । ‘लुक् तद्धितलुक्यगोणीसूच्योः' इति श्चीप्रत्ययस्यापि लुग् भवति ॥ अनुराधारवातितेिप्यपुनर्वसुहस्तविशाखाबहुलाभ्यः 8R, अनुराधादिभ्यस्तत्र जात इत्येतस्मिन्नर्थे संज्ञायामुत्पन्नस्य नक्षत्राणो छ् भवति । अनुराधः । स्वातिः । तिप्यः । पुष्यः । पुनर्वसुः । हस्तः । विशाखः । घहुलः । पूर्ववत् स्रीप्रत्ययस्यापि निवृत्तिः ॥ वत्सशालाभिजिदश्वयुङमृगशिरश्चित्रोरेवतीरोहिणीम्यो <T l Río l वत्सशूलादिभ्यस्तत्र जात इत्येतस्मिन्नर्ये संज्ञायामुत्पन्नस्याण्प्रत्ययस्य ठग्र्या भवति । वत्सशालः । वात्सशालः. अभिजित् । अभिजितः ।

  • अर्थभइणस्य प्रयी-ननक्थन छ: स्यात् १