पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/198

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ सरस्वतीकण्ठमरण [अध्या० ४ • शतषष्टश्यादेः पथः ष्ठन् ॥ ५४ ॥ शतशब्दपूर्वीत् पाष्टिशब्दपूर्वाच्च पथिन्शब्दात् तदधीते तद्वंदत्यंतास्मन् अर्थ छन्प्रत्ययो भवति । शतपथिकः । शतपयिकी । पष्टिपर्थिक " "- पथिकी । अणपीति केचित् । शातपथः ॥ अनुब्राह्मणादिनिः ॥ ५५ ॥ अनुघ्राह्मणशब्दादिनिप्रत्ययो भवति तदधीते तद्वेदेत्येतस्मिन् विपये 1 अणपवादः। ब्राह्मणसदृशो মৃত্যু अनुब्राह्मणः । तदधीते अनुब्राह्मणी अनुग्राह्मणिनी। 'अत इनिठनौ' इत्यनेनैव सिद्ध अणी निवृत्यर्थ वचनम्। क्रमपदशिक्षामीमांसासामभ्यो वुन् ॥ ५६ ॥ . . . . क्रमादिभ्यः शव्देभ्यो वुन्प्रत्ययो भवति तदधीते तद्वदत्यतास्मिन् विपये । क्रमकः । पदकः { शिक्षकः । मीमांसकः । सामकः | सर्वसादेलेंकू ॥ ५७ ॥ सर्वश्च सश्च सर्वसौ । तावादी यस्य तस्मात् सर्वसादेः शब्दात् तदधीते तद्वेदेत्येतस्मिन् अर्थे विहितस्य प्रत्ययस्य लुग् भवति । सर्वादेः सर्वतन्त्रमधीते सर्वतन्त्रः । सर्वैवेदः । सवार्त्तिकः । ससङ्ग्रहः । कथं द्वी वेदावधीते द्विवेदः । पृश्वव्याकरण: इत्यादिपु 'द्विगोरनपत्ये' इतेि लुकू सिद्ध एव ॥ प्रोक्तात् ॥ *५८ ॥ प्रोक्तसहचरितः प्रत्ययः प्रोक्तः । प्रेोक्तग्रत्ययान्ताद् अध्येतृवेदित्रोरुन्नस्य त्र्रत्ययस्य लुग् भवति । पूाणिनिना प्रेोक्तं पाणिनीयम् । तदधीते वेति वा पाणिनीयः । आपिशलिना प्रोक्तम् । 'इअश्व' इत्यण्। आपिशलम् । तदधीते वेत्ति वा अपिश(ला ? लात्) पुनरष्णू । तस्य लुक्। अापिशलः । नेयां स्वरे च पिशेपः पाणिनीया ब्राह्मणीति । लुक्यणन्तत्वेऽप्युपसर्जनत्वातू ख्रियां ठीय् न मयति ॥ सङ्ख्याकनः सूत्रवचनात् ॥ ५९ ॥