पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११२ सत्यापाढविरचितं श्रौतसूत्रम् ।

आध्वर्यव एवातोऽन्यानि कर्माणि ब्राह्मण आम्नातानि भवन्ति ।

अत उक्तकर्मतोऽन्यानि वरणाजपादीनि तानूनप्त्रादीनि उपस्थानादीनि चाss. ध्वयंव एवाऽऽम्नांतानि भवन्ति तान्यध्वर्युवत्कुर्यादित्यर्थः ।

एवं विहितꣳ सꣳस्थानां ब्रह्मत्वं ब्रह्मत्वम् ॥ २५ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्नस्याष्टमः पटलः ।

एवंप्रकारेण विहितं सर्वासा संस्थानां ब्रह्मत्वं भवति । द्विरुक्ति: प्रश्नसमाप्तिद्यो- तनार्था । इत्योकोपाडश्रीपदग्निष्टोमयाजिसाहस्राग्नियुक्तवाजपेययाजिसर्वतोमुखया- जितिसाहसानियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्सत्याषाढहिरण्यकशिसू- त्राम्बुधिगतनिगूढार्यरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम- श्नस्याष्टमः पटलः ॥ ८॥

समाप्तो दशमः प्रश्नः।