पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि०पटलः ] गोपीनाथभट्टकृतज्योल्माव्याख्यासमेतम् । ६४१ अथवा दशभिव्यक्तिभिरेव भूयसो विहितसंख्यातोऽधिकान्सोमक्रयणान्सोमविधिपरि- तोषार्थ संपादयतीत्येके समामनन्तीत्यर्थः । शतेन वाजपेये द्वाम्यार राजसूये सहले- णाश्वमेध इत्यत्र परितोषार्थ नाधिकसोमक्रयणदानं विहितसंख्याया एव बहुत्वेन तयैव परितोषसिद्धेः । सर्वथा तस्यापरितोष एव चेत्तदोपहरेतैवेति वक्ष्यमाण उपाय एव । तत्र भूयस्त्वनियममाह-

पञ्चदशभिः क्रीणाति सप्तदशभिः क्रीणाति चतुर्विꣳशत्या क्रीणात्यपरिमिताभिः क्रीणाति क्रीणामीत्यन्ततो वदति ।

षोडशाष्टादशाद्याश्चतुर्विंशतिसंख्याया अग्भूिता मध्यतनाः संख्याः परिसंख्या- यन्ते पञ्चदशसप्तदशचतुर्विंशतिसंख्यावाचकैः शब्दैः । मध्यतनसंख्यामिः परितोषेऽपि संख्याद्वयान्यतमसंख्यथैव देया इति अदृष्टार्थोऽयं नियमः । पञ्चदशभिरपरितोषे सप्तदशभिः परितोषणम् । सप्तदशभिरपरितोषे चतुर्विशत्या परितोषणम् । चतुर्पिश- त्याऽप्यपरितोषे प्रमाणतोऽप्यधिकाभिस्त्रिचतुरादिभिः परितोषणम् । सर्वथा परितोषा- भावे वक्ष्यमाण उपाय एव सोमविक्रयिपरितोषार्थ भूयोदाने क्रियमाणेऽन्ततोऽन्ते पञ्चदशसप्तदशचतुर्विशत्यपरिमितान्यतमभूयःपदवाच्यसंख्याशब्दोचारणानन्तरं क्रयता. धनव्यक्तीनां तूष्णीप्रदानेऽपि क्रीणामीति वदतीत्यर्थः । यथा वाससा कये सति पञ्चदशभिः क्रोणामि सप्तदशभिः क्रोणामि चतुर्विशत्या क्रोणामि अपरिमितामिः क्रीणामीति । अपरिमितशब्द उक्तप्रमाणाधिकप्रमाणवाची । अपरिमितं प्रमाणाय इति कात्यायनोक्तः । अथवा यानि परितोषार्थ देयानि द्रव्याणि मवन्ति तान्युच्चार्यान्त एव क्रीणानीति सकृच्छन्दमुच्चारयति नतु प्रतिद्रव्यमिति । यथा गोहिरण्याजावासोभिः कोणामीति, यथा वा गोभिर्हिरण्येनाजया वासाला च कोणानीति । नच द्वादशरात्रं दीक्षितो भूति वन्वीतेतिश्रुतिविहितं द्रव्ययाचनमरुणया क्रीणाति हिरण्येन क्रोणाती- त्यादिश्रुतिविहितोऽयं सोमक्रयश्चाविद्यमानद्रव्यसोमकस्यैव तद्वतस्तदानर्थक्यादिति वाच्यम् । अपूर्वस्य तदभावेऽनुत्पत्त्यापत्त्यैतयोनित्यत्वस्वीकारस्यात्यन्तावश्यकत्वात् । तयाच षष्ठेऽध्यायेऽष्टमे पादे जैमिनिः-याच्ना क्रयणमविद्यमाने लोकवत् , नियत वाऽर्थवत्तात्स्यादिति । द्रव्ये सोमे चाविद्यमान एव याच्ना याचनं क्रयणं क्रयश्च, अन्यथा न । एतच्च सुप्रसिद्धमिति लोकवदित्यनेनोच्यत इति पूर्वसूत्रार्थः । अर्थवत्त्वात्, अपूर्वात्तस्य प्रयोजनवत्त्वानियतमेवेदं द्वयं विद्यमानत्वेऽप्युमयस्येति ।

संपाद्य सम्यत्ते गोरस्मे चन्द्राणीति हिरण्यं प्रत्यादत्ते ।

संपाद्येत्यनुवादः । परितोषार्थ बहूनां सोमायणानां दानेऽपि संपादनाव्यवहितोत्तरं हिरण्यप्रत्यादानमेव कर्तव्यम् । अनन्तरं परितोषार्थसोमक्रयणदानमित्यर्थ बोधयितुं प्रत्तं हिरण्यं सोमविक्र येणो हस्तादादत्ते । येन हिरण्येन सोमं कोणीयात्तदमीषहा