पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२८ सत्यापादविरचितं श्रौतसूत्र- [७सप्तमप्रक्षे- वक्तुमशक्यत्वात् । वानिनयागः परप्रयुक्तद्रव्योपजीवी । इह तु न द्रव्यं परप्रयुक्त किंतु पांसुरूपस्य द्रव्यस्य यः संस्कार एकहायन्याः सप्तमपदनिधानात्मकः स एवं परप्रयुक्त इति वैषम्यालोप एवात्र युक्तः । तथा च चतुर्थाध्याये प्रथमपादे जैमिनिः- पदकर्माप्रयोजक नयनस्य परार्थत्वादिति । सूत्रार्थस्तु पदकर्म सप्तमं पदमभिगृहातीत्यादि नयनस्य सोमकयण्या नयनस्य प्रयोनकं न भवति परार्थत्वादन्यार्थत्वात्, अन्योऽर्थः यस्तदर्थत्वात् । नच शाखान्तरे तस्याः सप्तमं पदमितिश्रवणात्तत्र च तस्या इत्यने. नैकहायन्याः परामर्शदेकहायन्याः सप्तमपदग्रहणार्थत्वे सति विनिगमनाविरहान्नयन. स्योमयमपि प्रयोजकमेवेति वाच्यम् । तत्रापि ह्ये कहायनी न स्वरूपेण प्रकृता कित्वे- कहायन्या कोणातीति कयार्थत्वेनैवेवि परप्रयुक्तत्वेन निीताया एव विनियोगादिति विनिगमनाविरहासिद्धः । तदयं निर्गलितोऽर्थः-याऽसौ क्रयाकहायनी क्रयसिध्द्यर्थ नीयते तस्याः सप्तमं पदं गृह्णातीति क्रया या एवैकहायन्या बुद्धौ विपरिवर्तमानायाः प्रसङ्गात्पांसुग्रहणोपकारतामात्रेण संबन्धेऽपि सप्तमपदवाक्यस्य निराकाङ्क्षतया तदर्थ- खावेदकप्रमाणाभावात् क्रयाकहायनी नतु पदपांसुग्रह्णाति ।

अपादाय हिरण्यं परिलिखितमिति स्फ्येन पदं परिलिखति यावद्घृतमनु विसृतं भवति तूष्णीं विषाणया चानुपरिलिख्यास्मे राय इति स्थाल्यां पदं निवपति ।

अपादाय गृहीत्वा । स्फ्योऽत्रैष्टिको लौकिको वा । पदं पदसंबन्धिप्रदेशं परितो लिखति । कदाचित्पदप्रदेशावहिरन्तरेव वा घृतं विसृतं प्रसृतं भवति तावत्परिमितमेव पदमनुलक्षीकृत्य परितो लिखतीत्यर्थः । अनेन केवलपदपरिमितप्रदेशस्यैव परितो लेखन व्यावयते । प्रादक्षिण्यं परिभाषासिद्धम् । पुरस्तादुपक्रमस्तथाऽपवर्गः । त्रि: परिलिखतीत्यापस्तम्बः । अस्मिन्पक्षे सकृन्मन्त्रेण द्विस्तूष्णीमिति ज्ञेयम् । परिलेखनाथ स्फ्यादानं तूष्णीमेव मन्त्रानुपदेशात् । आपस्तम्बस्तु सावित्रेण पादानमाह । अस्य श्रीवा आप कृन्तामात्यन्तो मन्त्रः । विषाणया यजमानसंबन्धिन्या कृष्णविषाणया तस्या एवोपस्थितत्वात् । चकारो यावद्धृतमनु विसृतं भवतीत्येतस्यानकर्षणार्थः । एवं चात्रापि न ततो न्यून नाप्यधिक परिलेखनमिति सिद्धं भवति । अथवा स्फ्येन सह कृष्णविषाणायाः साहित्यार्थः । तेनोभाम्यां मिलितानाम्यां परिलेखनमिति सिद्धं मवति । पूर्वसूत्रान्मन्त्रस्यापि प्राप्तिर्भविष्यति तां वारयितुं तूष्णीमितिवचनम् । स्थाली- शब्द आकारविशिष्टधातुमृन्मयान्यतरपात्रमाचष्टे । तेनैतदितरपात्रं भूमौ निवपनं चापि व्यावृत्तं भवति । पदं पादपासून् । स्थाल्यां निवपतत्यित्रोपक्रान्तत्वादर्थात्पदलामे पदग्रहणं कृष्णविषाणानिवृत्त्यर्थम् । ननु एततच्छब्देनैव सिद्यति किमर्थ पदग्रहण- १स. म. 'तच्छ।