पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २ द्वि०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६२७ पस्थितत्वादेव प्राप्त्यभावसिद्धः । तस्या उदयाग्वा नीयमानाया वस्यसीत्यारभ्या- स्थन्ताः षण्मन्त्राः । एतैरितिवचनं प्रतीकोपात्त एक एव मन इत्येतादृशमर्थ व्यावर्त. यितुम् । मौरितिवचनमकैकेन मोणकै क्रमणमिति ज्ञापयितुम् । अनु आनुपूर्येण निकामति निगृह्य कामति कामयतीत्यर्थः । अन्तर्भावितोऽत्र णिच् । अथवा तस्या दक्षिणेन पूर्वपादेन यानि षट्पदानि क्रम्यन्ते तान्यध्वर्युरनु पश्चानितरां क्रामति आक्रामति उपर्युपरि निदधातीति तात्पर्यार्थः । दक्षिण एव पादोऽत्राधिकारात् । अस्मिन्पक्षे णिनाऽऽश्रवणीयो मवति । अत्र यनमानः पत्नी चापि गच्छतः । अध्वर्युमनु यजमानस्तमनु पत्नी । तथाच बौधायन:-अन्वग्यजमानोऽनूची पत्नी स्थाली पद्धरणीमादायेति । गच्छतीति शेष उभयत्र । पदं हियतेऽनयति पद्ध- रणी तां स्थालीमादाय गच्छत्तीत्यर्थः । अन्यच्चाप्याह- -अथैना सोमक्रयणीमण शालामुदीचीमतिविन्स(वासा)यन्तीति ।

बृहस्पतिस्त्वा सुम्ने रण्वत्विति सप्तमं पदमभिगृह्णाति ।

सप्तमपदानुनिक्रमणं तूष्णीमेव मन्त्रानुपदेशात् । अभिगृह्णाति च्छादयति । अञ्जलिनेति शेषः । उत्करममिगृह्णात्यञ्जलिनेति प्रकृती दर्शनात्, आपस्तम्बेन स्पष्टो. क्तत्वाच । एतेन. वस्त्राच्छादनं व्यावर्त्य ते । चिकेविति मन्त्रान्तः ।

तस्मिन्हिरण्यं निधाय पृथिव्यास्त्वा मूर्धन्नाजिघर्मीत्येतच्चतुर्गृहीतं जुहोति ।

अत्रापि पूर्ववत्पश्चगृहीतेन विकल्पः । तस्मिन्पदे हिरण्यं निधाय पृथिव्यास्त्वेति मन्त्रेण चतुर्गृहीतं हिरण्यमनुपदे जुहोति । इष्टिशेषद्रव्यत्वात्परिक्रमणं नेति केचित् । घृतवति स्वाहेत्यन्तो मन्त्रः । अत्र बौधायनः कर्मान्ते-किदेवत्या उ खलु पदाहुति- भवतीति प्रकृत्याऽऽमेयीत्येके वैष्णवीत्येके प्राजापत्येत्येके वाग्देवत्येत्येव ब्यादिति । तेनान वाग्देवता वाग्वा एषा यत्समक्रयणीत्यर्थवादाद्वाचे सोमक्रयण्या इदमिति त्याग इति केचित् । हिरण्यस्योपर्येव होमः । यदध्वर्युरनग्नाविति श्रुतेः । धुवाशेषनाशे पूर्व- वद्घौवैर्मन्त्रैगृहीत्वा तेन नूरसीति होमश्च । भ्रान्त्या कदाचिस्विष्ट कृदभिधारणद्वयेऽन्ति- मप्रायश्चित्ताहुत्यर्थग्रहणद्वये वाऽऽप्यायनं कृतं चेत्तदा तेनैवैती जुहुयात् । उभयत्रापि सर्वप्रायश्चित्तहोमोऽनाज्ञातजपादि च । यदि एकहायनत्वादिगुणावशिष्टायां गवि क्रयार्थ नीयमानायां दैवादावणि सप्तमपदपातस्तदा होमस्याऽऽरादुपकारकत्वाद्मावण्येव । अक्षाभ्यञ्जनं तु यः कैश्चिदपि पांशुभिः कार्यम् । गुणछोपे मुख्यलोपानुपपत्तेः । नच वानिनयागवल्लोप एवास्त्विति वाच्यम् । एतस्य परप्रयुक्तद्रव्योपजीवित्वाभावेन लोपस्य १ख. घ. "तिवरस।