पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- 1 सत्यापाढविरचितं श्रौतसूत्रं- [७सप्तमप्र- यद्रव्येषु वासःप्रभृतिषु सर्वेषु निवेश इति वाच्यम् । अमूर्तस्यापि द्रव्यपरिच्छेदद्वारा साधनत्वसंभवेन द्वारापेक्षायां च स्ववाक्योपात्तैकहायनीसंबन्धस्य कल्पनेनैकहायन्या- मेव निवेशस्य मीमांसकैरङ्गीकारात् । तथा च तृतीयाध्याये प्रथमे पादे जैमिनि:- अ.क्यत्वे द्रव्यगुणयोरेककानियमः स्यादिति । सूत्रार्थस्तु-अर्थक्यत्वे तत्प्रयुक्त. कवाक्यत्वे व्यगुणयोरैककादेकक्रयरूपकर्मार्थत्वान्नियमः परस्परान्वयरूपः स्या- दिति । तां सोमक्रयणी गामीक्षमाणः पश्यञ्र सीति मन्त्रेणतत्पूर्वगृहीतं चतुर्गृहीतं जुहोति । ईक्षमाण इति वर्तमानशानचेक्षणहोमयोः समकालत्वम् । प्राग्वंशाभ्यन्तर एव पुरस्तादाहवनीयस्य प्राङ्मुखी सोमक्रयणी गौः स्थाया । कामादेकद्वारे सर्वतः परिश्रिते बहिःस्थिताया ईक्षणानुपपत्तेः प्राग्वंशाभ्यन्तरे स्थापनम् । एतच्चतुर्ग्रहीत. मिति विशिष्टेनैकवचनेनोभयोपिनियोगादिदं ज्ञायते यत्र यत्रैतच्छब्दपूर्वकचतुर्गृहीत. विनियोगविधिस्तत्र पञ्चगृहीतविधिर्विकल्पते । शते पञ्चाशदिति न्यायेन पञ्चसंख्याया- मपि चतुःसंख्याया अनुप्रवेशाच्चतुर्गृहीतहोम एव सः । अधिकं प्रविष्टं नतु तद्धानिरिति न्यायादधिकसंख्यापवेशेऽपि चतुःसंख्याया हानिनास्ति । न षड्गृहीताद्यतिप्रसङ्ग- स्तत्रापि चतुःसंख्यानुप्रवेशसत्वादिति वाच्यम् । चतुर्मुहीतहोमसंबन्ध्यर्थवादस्य चतु- पादः पशवः पशूनेवावरुन्धे चतस्त्रो दिशो दिक्षेत्र प्रतितिष्ठतीत्यस्य पञ्चगृहीत भवति पाङ्गा हि पशवः पञ्च देवता यजति पञ्च दिशो दिक्ष्वेव प्रतितिष्ठतीत्युभयवाक्य- गतपञ्चसंबन्ध्यर्थवादस्य च समत्वेन षट्संख्यादिषु तदमावेनातिप्रप्तङ्गवारणात् । न्यून- संख्यावारणं तु चतुःसंख्याया अनुप्रवेशामावादेव सिध्यति । अत इदं सिद्धमेतच्छब्द- पूर्वकचतुर्गृहीतविनियोगविधौ पञ्चगृहीतमपि विकल्पत एव तेनापि चतुर्गृहीतहोम- विधिसिद्धिरिति । नच चतुर्गृहीतवचनस्य हिरण्यव्यावृत्त्यर्थत्वमेवास्तु इति वाच्यम् । हिरण्यव्यावृत्तेस्तु घृतादुद्धरतीत्यग्रे विधानादेव तसिद्धत्वेनैतस्य तम्यावृत्त्यर्थत्वानुप- पत्तेः, चतुर्गृहीतवचनवरपञ्चगृहीतवचनस्यापि कर्तव्यतापत्तेश्च ।

अपरं चतुर्गृहीतं गृहीत्वा शुक्रमस्यमृतमसीति हिरण्यं घृतादुद्धरति ।

अपमिति वचनं पूर्वेण संबन्धार्थम् । तेनेयमपि ध्रुवाशेषादेव होतव्या । अपर- मित्येतावत्येवोच्यमाने पञ्चगृहीतस्यापि पक्षे प्राप्तिः स्यात्सा मा भूदित्येतदर्थं चतुर्ग्रही- तक्चनम् । प्रथमयोधुवाप्यायनं धौवसमाप्तिः। घृतवचनमान्यस्य द्रवीभूतत्वं सूचयितुम् । घु क्षरणदीप्त्योरित्यस्माद्धातोरनिवृसिम्यः क्त इत्युणादिसूत्रेण क्तः । एतेन घृतस्यापा- दानत्वमपि निर्वोढुं शक्यं भवति ।

वैश्वदेवꣳ हविरित्यभिमन्त्रयते ।

आज्यमित्येव शेषो नतु हिरण्यं मन्त्रे हविरिति श्रवणात् , आपस्तम्बेन स्पष्ट; तयामिधानाच- - +