पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। । २ द्वि पटलः ] गोपीनाथभट्टकृतज्योत्नाम्याख्यासमेतम् । ६२३.

रोहिणी पिङ्गाक्षी बभ्रुलोम्नी श्वित्रोपकाशा पृश्निवाला पृश्निशफैकहायनी द्विहायनी त्रिहायणी वा जूरसीति तामीक्षमाण एतच्चतुर्गृहीतं जुहोति ।

अन्वारब्धे यजमान इति बौधायनः । सोमः कोयते यया गवा सा सोमक्रयणी सोपकप्ता भवति । उपकृति भूतनिर्देशादेतदिवसानुष्ठानारमात्पूर्वमेवोपकरुपनं कर्त. न्यमित्यवगतं भवति । समझा संपूर्णाङ्गा । बन्धुमती, अत्र बन्धुशब्देन स्वहिता मातृ- पितृभ्रातृसखायो गृह्यन्ते । तेन मातृपितृभ्रातृसखिमतीत्यर्थो भवति । अनु वा माता मन्यतामनु पिताऽनु भ्राता सगर्योऽनु सखा सयूथ्य इति मन्प्रवीदयमर्थो लभ्यते । यथाऽनीषोमीय इत्यनेन वक्ष्यमाणे स्थूलत्वपीवत्वे अतिदिश्यते । यथा निरूतपशुनन्ध इत्यमीषोमीये वचनादुपकृतः पशुरकूट इत्यादौनि पशुसूत्रोक्तानि लक्षणान्यप्यतिदि. श्यन्ते । उपक्लृप्ता सोमक्रयणी यथाऽनीषोमीय इत्येतावतैव समङ्गत्वमन्धुमत्त्वसिद्धौ पुनर्वचनं समङ्गत्वबन्धुमत्त्वे एवाऽऽवश्यके न यमान्यतरत्वं स्थूलत्वं पीवत्वं चापीति कृष्णश्वेतत्वं तु बभ्रुत्वादिविशेषविधानादेव निवृत्तं भवति । बभ्रुः पिङ्गला । अरुणा कपिशवर्णा । रोहिणी सत्युपध्वस्ता, उपध्वस्ताऽन्येन वर्णेनाभिभूतो यो वर्गः स उपध्वस्तस्तद्वती क्वचित्प्रदेशे केवलरोहिणी क्वचित्प्रदेशे मिश्रितवर्णी, एतादृशवर्णद्वय- विशिष्टेत्यर्थः । बभ्रुवर्णा, अरुणवर्णा, लोहितमिश्रितवर्णात्मकवर्णद्वयवतीति त्रितयान्य- तमा सोमक्रयणीत्यर्थः । रोहिणी, उपध्वस्तेति द्वयोः पृथकपदार्थत्वेऽने रोहिणीपदवैय. यांपत्तिरतो विशिष्ट एव पदार्थः । न चैवमपि तद्दोषतादवस्थ्य शङ्क्यम् । तस्य केवलरोहितवर्णपरत्वेन तदभावात् । प्रपीना मांसला । केचित्तु अप्रपीनेतिपदच्छे कृत्वा प्रपीनोष्ट्रोमसदृशवर्णा तदन्येति व्याचक्षते । मध्येऽथशब्दो भिन्नकमार्थः । सेनेत उत्तरं सर्व समुच्चितमेव विकल्पते । अत्राऽऽपस्तम्बो विशेषमाह-द्विरूपया राजन्यस्येति । द्विरूपा श्वेतकृष्णा । यच्छेतया क्रीणीयादुश्चर्मा यजमानः स्यायत्कृष्ण- याऽनुस्तरणी स्यात्प्रमायुको यजमानः स्यादिति पूर्वत्र तयोरेव वर्णयोरुपक्रान्तत्वात् । षोडश्यादौ विशेषो वक्ष्यते । रोहिणी केवलरक्तवर्णा । पिङ्गाक्षी पिङ्कनेत्रा । बभ्रुलोम्नी प्ररूढकपिलवर्णलोनी नानाजातीयवर्गोमभिः क्वचिवचिदुपेता वा । श्वित्रोपकाशा श्वित्रं चित्रं कुछ तत्समानवर्णा । बाला अक्ष्णोर्यस्याः सा पृश्निवाला श्वेतपृषत्कवाला । पृश्निशफा श्वेतपृषत्कखरा । एक हायनं यस्याः सहायनी। एवं द्विहायनी त्रिहायणी- त्यत्रापि, हायनशब्दो वर्षवाची, एकवर्षा द्विवर्षा त्रिवर्षा वेत्यर्थः । दामहायनान्ता- त्यनेन सूत्रेण कीप् । त्रिचतुभ्यां हायनस्य णत्वं वाच्यमिति त्रिहायणीत्या णत्वं, वयोवाचकत्वान्कोच्णत्वे युक्त एवात्र । एतच्चैकहायनीत्वादिकं साधारण ज्ञेयम् । नचारुणयैकहायन्या सोमं क्रोणातीत्यत्रारुणगुणस्यामूर्तीवेन क्रयसाधनत्वासंभवासदी