पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ५५० सत्यापाढविरचितं श्रौतसूत्रं- [७.सप्तमप्रक- टोमशब्दार्थः । अग्निष्टोगस्य सर्वकामत्वे श्रूयते शाखान्तरम्-"एकस्मै वा अन्ये यज्ञाः कामायाऽऽहियन्ते सर्वेभ्योऽमिष्टोमः " इति । आहियन्ते क्रियन्त इत्यर्थः । काम्प एव फलवत्ता जैमिनीयः साधिता । न चास्मच्छाखायाममिष्टोमस्य फळं श्रूयते । नच तस्मिन्नसति कथमित्याकाशाप्रकरणमुदेति । तथा च तेन वसन्ते वसन्ते यजेत तस्य नानुपकान्तयोर्दर्शपूर्णमाप्तयोराहार इत्यादिक न व्याख्यातुं युक्तमिति फलमेव बुद्ध्वा पुरुषः प्रवर्तत इति तदादौ वक्तुं युक्तम् । ननु सर्वकामोऽग्निष्टोम इति वाक्यस्य फलसाधनीभूताग्निष्टोमविधायकत्वात्फलस्य यजमाननिष्ठत्वादेतद्वाक्यं याजमानसूत्र एष पठितव्यमिति चेन्न । साध्यसाधनाकाक्षानिवृत्तौ सत्यमितिकर्त- व्यताकासोदयेन तदर्थ साध्यसाधनाकासानिवर्तकस्याऽऽध्वर्यवादिप्रयोगरूपेतिकर्तः व्यताविधानात्पूर्वमेव सर्वकामोऽनिष्टोम इति वाक्यपाठस्य युक्तत्वात् । नन्वेकस्मै वा भन्ये यज्ञाः कामायाऽऽहियन्ते सर्वेम्पो ज्योतिष्टोम इत्यपि श्रूयते । ततश्च त्रिवृ. स्पञ्चदशः सप्तदश एकविशः। एतानि वाव तानि ज्योती श्रपि । य एतस्य स्तोमा इत्यनया श्रुत्या स्तोमचतुष्टयवरसु कर्मसु शक्त्यवगमाद्व्यापकं धर्म परित्यज्य किपर्य व्याप्यधर्मनिर्देशः कृत इति चेन्न । उक्थ्येन पशु कामो यमेत, षोडशिना वीर्यकामो यजेत, अतिरात्रेण प्रनाकामो यनेतेत्यादिभिः श्रुतिभिरुक्थ्यादिषु स्तोमचतुष्ट यवत्सु अग्निष्टोमगुणविकारेषु कर्मसु नियतफलश्रवणताया बाधितत्वेन ज्योतिष्टोमश- देनानिष्टोमस्यैव ग्रहणात् । नच पातिष्टोमेन स्वर्गकामो येनत...श्रावप्याग्निष्टो. मस्य ग्रहणं ज्योति नामशब्देनास्त्विति वाच्यम् । एकस्मै वा अन्ये यज्ञा इति सर्वका मत्वानिकश्रुतिविरोधापत्त्या तथा वक्तमशक्यत्वात् । उक्मादिपरत्वमपि वकुम- शक्यम् । तेष्वपि स्वतन्त्रफलश्रवणात् । मच ज्योतिष्टोमेन स्वर्गकामो यजेत त्यस्साः श्रुतेः कावकाश इति शक्यम् । अत्यग्निष्टोमादिष्ववकाशसंभवात् । विश्वनिति तु , फलस्पाश्रवणात्फलमन्तरेण विधिश्नुतेर नुपपत्तरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वर्ग एवं कल्पितो जैमिनिना स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादिति सूत्रेण । सूत्रार्थस्तु यदेकं फलं स स्वर्गः स्यात्सर्वान्सर्वपुरुषान्प्रति अविशिष्टत्वादिति । यन्न दुःखेन संभिन्न नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्मुखं स्वःपदास्पदम् ॥ इति यवनप्रतिपादितनिरतिशयसुखविशेषात्मस्वर्गस्याभिमतत्वेन विशिष्टतुल्यत्वादि- त्यर्थः । स्वर्गसुख दुःखाननुषक्तनिति कृत्वा सर्वाभिमतं पश्वादिसुखं दुःखानुषक्तमरूपं चेति केचिदेव प्रार्थयन्ते । स्वर्गसुखं तु बहवः प्रार्थयन्त पूर्वसूत्रार्थः । प्रत्ययाचति दिलीय सूत्रम् । तस्यार्थः-प्रतीयते निरतिशयसुखत्वेनामिलण्यते सर्वैरिति प्रत्ययस्त- म्माच हेतोरित्यर्थः । तथा चार्य निर्गवितोऽर्थः-दुःखाननुषक्तस्माधिकरणक्षणध्वंसान-