पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ६०९ 3 १५० पटलः ] गोपीनाथभट्टकृतज्योत्सान्याख्यासमेतम् । अंशुम्यो यत्किचिदन्यत्तणादिकं तदपोद्धरति बहिनिष्काशयतीत्यर्थः । उत्तरप्रै- षानुगुण्येनेदानी व्याख्यायते--अशुभ्यः समीचीनांशुम्योऽन्यदसमीचीनकाण्डञात तृणादिकं च तदपोद्धरति बहिनिष्काशयतीत्यर्थः । यथा घटमानयेत्युक्ते कार्यक्षम वघट आनीयते तथेति ।

नाध्वर्युः सोमं विचिनुयान्नास्य पुरुषो न यजमानो न यजमानस्यामात्या न विचीयमानस्योपद्रष्टारो भवन्ति ।

अध्वरं युनक्तीत्यध्वर्युः, अध्वरं नयतीति वाऽध्वर्युः, अध्वरं कामयत इति याऽध्वर्युः । तथाच निरुक्तम्- अध्वर्युरध्वरयुरध्वरं युनत्यध्वरस्य नेताऽध्वरं कामयत इति वेति । क्षोधुकोऽध्वर्युः स्यादितिदोषनवणानाध्वर्युः सोमविवेचनं कुर्यात् । अस्याध्वर्योः पुरुषोऽपि विवेचनं न कुर्यात् । तत्पुरुषाणामप्यध्वर्युत्वाक्षोधुकोऽध्वर्युः स्यादिति श्रुतो दोषस्तेषामप्यस्तीति भावः । नन्वेवं नाध्वर्यवः सोमं विचिनुयुरित्येवमेव वक्तव्यं तथाचतावत वाध्वर्यपुरुषाणामपि निषेधे सिद्धे पृथक्सूत्रकरण व्यर्थमिति चेत्स- त्यम् । नास्य पुरुष इत्ययं निषेधः शाखान्तरीयः स्वतन्त्र एव नतु स्वशाखागतस्या- ध्वर्युपदगतेकवचनस्य नात्यभिप्रायकत्वं कल्पयित्वा सर्वावर्युपरत्वं, सर्वत्रातिप्रसक्तत्वेन वक्तुमशक्यत्वादित्येतादृशार्थज्ञापनार्थत्वेन वैवाभावात् । तेन नासस्थिते सोमेऽध्वर्युः प्रत्यल्स दोऽतीयादित्यादाववर्योरेव निषेधो न तत्पुरुषाणामिति सिद्धं भवति । क्षोधको यजमान इति दोषश्रवणायजमानोऽपि विवेचनं न कुर्यात् । शाखान्तरीयमन्ये - षामपि विवेचननिषेधमाह-न यजमानस्यामात्या इति । अमात्याः पुत्रपौत्रादयः । विचीयमानस्य पुरुषस्योप समीप उक्ता अनुक्ताश्च द्रष्टारोऽपि न यवन्ति किम वक्तव्यं विवेचनं न कर्तव्यमिति । एतेनाध्वर्युतत्पुरुषव्यतिरिक्तानामृविजामपि विवेचननि- षेधो यजमानामात्यव्यतिरिक्तानामन्येषां च । नन्वेवं न विचीयमानस्योपद्रष्टारो भवन्ति कि वक्तव्यं विवेचनं न कर्तव्यमिति कैमुतिकन्यायेनैवाध्वर्वादीनामपि विवेचननिषेध. सिद्धौ नावयुः सोमं विचिनुयादित्यादिनाऽध्वर्यादीनां पृथतिषेधो व्यर्थ इति चेन्न । तस्य दोषाधिक्यप्रदर्शनार्थत्वेन वैयर्थ्याभावात् । अवॉर्यथा दोषस्तथैव तबीयपुरुषस्यापीति दर्शयितुं नास्य पुरुष इति । यथा यजमानस्य दोषस्तथा तदीयामात्यानामिति दर्श- यितुं न यजमानस्यामात्या इति । सोमविक्रयिकर्तृकविवेचनसमये निषेधादेव विवेचन- निषेधस्यापि सिद्धौ पृथग्विवेचन निषेधो दोषाधिक्यार्थः । दोषाधिक्याच्छ्रौतस्मात. प्रायश्चित्तयोः समुच्चयः । द्रपृत्वे श्रौतमेव दोषाधिक्याभावात् । तत्र श्रौतं प्रायश्चित्तं सर्वप्रायश्चित्तमेव विशेषानुक्तेः । अनाज्ञातत्र यजपो वैष्णव्यग्ब्याइतिजपश्च । स्मार्तमपि साधारणमेव । - ।