पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- ६०८ सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- इत्युपपातकप्रकरणे शातातपेन चान्द्रायणस्योक्तत्वाञ्च सोमविक्रये दोषः । यत्तु चतुर्विशतिमते- मुराया विक्रयं कृत्वा घरेन्सौम्यचतुष्टयम् । लाक्षालवणमांसानां चरेच्चान्द्रायणत्रयम् ॥ मध्वाज्यतैलसोमानां चरेचान्द्रायणद्वयम् । इति, यच विष्णुवचनम् -रक्तवस्त्रमधुरसोर्णाविक्री त्रिरात्रमुपवसेत् । प्राणिसोम- विक्रयो तप्तकृच्छ्रे कुर्यात्तं च भूयश्चोपनयेदिति, यच्च शङ्खलिखितवचनम्- न विक्रीणीयादविक्रेयाणि तिलतैलदधिक्षौद्रलवणलाक्षामद्यमांसकृतान्नस्त्रीपुरुषहस्त्यश्व- गन्धरसक्षौमकृष्णानिनसोमोदकनीलीविक्रयात्सद्यः पतति ब्राह्मण इत्युपक्रम्य संवत्सरं सप्तकृच्छ्रमाचरेदिति, यच्च पैठीनसिवचनम् -आरामतडागोदपानपुष्करिणीस्कृत- सोमविक्रये त्रिवणस्नाय्यधाशायी चतुर्थकालाहारो दशसहस्रं गायत्री जपन्संवत्सरेण पूतो भवतीति तयोभ्यासशक्ताशक्तपरत्वेन व्यवस्थापनीयम् । सुकृतं पुण्य, कृतार. पक्वान्नम् । सोमविक्रयिणः स्पर्शे प्रायश्चित्तमुक्तं पराशरेण- चैत्यवृक्षश्चितिर्युपश्चण्डालः सोमविक्रयो । एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत् । इति । नलमाविशेस्नानं कुर्यादित्यर्थः। निषिद्धेऽपि कर्मणि प्रवृत्तिस्तु लोभवशात् । सोपविक्रयीत्यत्र कर्मणीनि विक्रिप इति सूत्रेण कर्मणि विपूर्वाकोणातेरिनिः । कुत्सित- ग्रणं कर्तव्यमिति वार्तिकात्म च कुत्सितेऽर्थे भवति ।

सोमविक्रयिन्सोमꣳ शोधयेति संप्रेष्यति शुन्ध सोममापन्नं निरस्येति वा शुन्ध सोममापन्नं निरस्त इति वा ।

निरस्त इति सप्तम्यन्तम् । हे सोमविक्रयकर्तः सोम समीचीनकाण्डात्मक राशी भूतात्सोमात्तुणादिभ्यश्च शोधय विवेचय चर्मण उत्तरभागे पृथक्कुवित्यर्थः । शुन्ध सोममापन्नं निरस्येति शुन्ध सोममापन्नं निरस्त इत्येतौ पूर्वेण सह विकल्पिती शाखा- स्तरीयौ । आपन्नं सौमे पतितं तृणादिकं निरस्य दूरीकृत्य सर्व सोमं शून्ध समीचीन- काण्डभूतं विवेचयेत्यर्थः । निरस्ते तृणादिके बहिनिरस्ते सति य आपन्नो लब्धः सोमस्तं शुन्ध पुनस्तमपि समीचीनकाण्डभूतं विवेचय पृथकुर्वित्यर्थः । वाशब्दद्वयमेकशाखा- गतावेतौ प्रेषौ नतु मिन्नशाखागताविति बोधयितुम् । शोधनप्रकारमाह--

यदन्यदꣳशुभ्यस्तदपोद्धरति ।

1 i