पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ६०२ सत्यापाढविरचितं श्रौतसूत्र-: [७ सप्तमप्रभे-

दीक्षितस्य यूपं छिनत्ति यथा निरूढपशुबन्धे ।

अर्थादेव दीक्षितस्य सिद्धौ दीक्षितस्येतिवचनं दीक्षाणां बहुत्वे यस्मिन्कस्मिंश्चिद्दी- क्षादिवसे यूपच्छेदन कर्तव्यं न प्रथमदिन एवेत्येतदर्थम् । एतदर्थमेव शाखान्तरे बहु- वचनं श्रूयते-दीक्षासु यूपं छिनत्तीति । सर्वपशूनामेष कल्प इत्यनेनैव सिद्धे यथा निरूढ पशुबन्ध इति वचनं व्यरनिर्वा चतुररनिर्वा पालाशो निरूढपशुन्धस्य यूपोऽ. वोऽन्ये सौम्यस्याध्वरस्येत्यनेन सौम्याध्वरसंबन्धिमान प्राप्तं तद्दीक्षासु यूपच्छेदने निवारयितुं सर्वेषु कल्पेषु विकल्प बोधयितुं वा । तथा चाऽऽपस्तम्बेन व्यरनिश्चतुर- रनिर्वा पालाशो निरूढपशुबन्धस्यातोऽन्ये सौम्यस्याध्वरस्येति वाजसनेयकमिति वान- सनेयकग्रहणं विकल्पार्थं कृतम् ।

न यूपाहुतिं जुहोति होमार्थामृचं जपित्वाऽभिप्रव्रजति ।

यूपप्रकरणादेव सिद्धे यूपनिमित्तकाहुतित्वे यूपवचन(नेन) यूपच्छेदनमात्राङ्गमेवेय- माहुतिर्भवति न केवळयूपनिमित्तकाहुतिस्तेन खवास्यादी छेदनामावादियं यूपाहुतिर्न भवतीति साधितं भवति । यपाहुतेः क्रतुसंयुक्तत्वेऽपि निषेधोऽनेन क्रियते । न यूपा. हुति जुहोतीत्येतस्यानुपपत्तौ होमजपयोः समुच्चयः स्यात्स मा भूदित्येतदर्थमिदं वचन- मावश्षकम् । नहि दीक्षितस्याग्नौ जुह्वति वैष्णवीमृचमनूच्याच्छैतीति शाखान्तरोयोऽयं होमाभावपक्षः । अच्छति यूपं प्राप्नुमभिमुखं गच्छतीति श्रुतिगतस्याच्छैतीत्यस्यार्थः । होमार्थामृचमित्यादेरनुक्तौ जपामावोऽपि स्यादविधानात्स मा भूदित्येतदर्थ जपित्वाऽमि- प्रव्रजतीतिवचनम् । होमार्था मितिवचनं स्थानापत्तिलाभार्थम् । तेनाऽऽहवनीयसमोप एव जपित्वाऽभिप्रव्रजतीति सिध्यति । अचमितिवचनमृक्त्वज्ञानावश्यकत्वार्थम् । तेन ज्ञानापावे भ्रषप्रायश्चित्तं कृत्वैवाग्रिभ कर्म कार्यम् । तच्चाध्वर्युसंबन्धित्वाद्यजुर्भेषनिमि- तकमेव ।

अपि वाऽऽज्यमरणी चाऽऽआदाय यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिꣳ हुत्वा यूपं छिनत्ति ।

शाखान्तरीयमेतत्प्रकारान्तरं होमसत्त्वेनाऽऽज्यस्यार्थादादाने सिद्धेऽत्र वचनमरणी- सहभावार्थम् । तेनावयुगवारणी आज्यं च गृहीत्वा यूपातमीपे गन्तव्यमिति । आदान- वचनं परिकर्मिकर्तृकतां व्यावर्तयितुम् । तेनान्यत्राऽऽदानवचनामाचे परिकर्मिकर्तृकताऽ. प्यस्ति पक्ष इति ज्ञातं भवति । अरणीवचनं यत्किचिदरणीलक्षणरहितकाष्ठव्यावृत्त्य- यम् । यूपस्यान्तिके यूपस्य समीपे संस्पृष्टत्वरूपं परमं सामीप्यमत्रान्तिकपदार्थों न भवति दाहप्रसङ्गारिक तु यावता सामीप्येन यूपदेशमहं प्राप्तोऽस्मीति व्यवहारस्ता- वदेव सामीप्यमन्तिकपदेन विवक्षितम् । तस्य चैकत्वे यूपैकादशिन्यां तन्त्रमेव मेदे तु