पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] गोपीनाथभट्टकृतज्योत्याव्याख्यासमेतम् । ५९३ श्रुतापूर्णमेवावरुन्ध इत्यूर्वृद्धिफलबलाच्छरशब्देन मुञ्जा एव ग्राह्या इति भावः । शराश्च मुञ्जाश्चैतेषां समाहारः शरमुभाः । दधिपयआदित्वाच्छादसत्वाद्वैकवद्भावाभाव इति केचित् । शरमुञ्जयोविकरूपः । मौज्या मेखलाया अन्यत्र दर्शनाच्छरामाव एषा भवतीत्यर्थः । समुच्चयो वा । अत्रापि शरमयत्वस्थानाधादित्यन्ये । विकल्पपक्षे शस्मयी मेखला भवतीति विकारार्थे मयट् । समुच्चयपक्षे प्राचया मयट् । एतत्पक्ष: द्वयमप्ययुक्तं शरमयं बहिः शृणात्यैवैनमिति शरमयत्वस्य शत्रुविशरणफलकत्वेनाss- भिचारिककर्मण्येव प्रवृत्त्या तव्यतिरिक्त कर्मणि शत्रुविशरणफलकस्य शरमयत्वस्य प्रवृत्तेरनुचितत्वात् । तस्माच्छरशब्देन मुञ्जा एव ग्राह्या नतु शरारूयतृणानीति ज्ञेयम् । त्रिवृच्च वेणी च त्रिवृद्वेणी त्रिवृत्रिगुणा वेणी वेण्याकारा । एतादृशी मौजी मेखला कार्येत्यर्थः । त्रिवृत्, वेणी यस्याः सेति बहुव्रीहिवा । इयं विस्तीर्णा च कार्यो । पृथ्वी भवतीति श्रुतेः । अथवा त्रिवृद्वेणीका, आर्या, इति पदच्छेदः । विवृद्वेणीकेति स्वार्थे कप्रत्ययः । आर्यशब्दः श्रेष्ठयवाची । श्रेष्ठयमत्र विस्तीर्णत्वरूपम् । तथाच पृथ्वी भवतीति सूत्रादेव श्रुत्यर्थः सिद्धो भवति । आर्येत्यनन्तरं मवतीति शेषः । एवं च रज्जुसदृशी मेखलेति अवगतं भवति । योक्त्रं तु जटासहशम् ।

ऊर्गसीति तया यजमानं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति द्विरित्येके पूषा ते ग्रन्थिं ग्रथ्नात्वित्युतरतो नाभेर्निष्टर्क्यं ग्रन्थिं कृत्वा स ते मा स्यादिति दक्षिणतो नाभेः परिकर्षति यं द्विष्यात्तं ध्यायेत्।

नर्गसीति विवृद्वेण्या शरमुञ्जाना मेखलया यजमानं नामिदेशे त्रिः प्रदक्षिण परिव्ययतीत्येतावनैव सिद्धे शरभुञ्जानां मेखला त्रिवृद्वेणी कार्येति भिन्नं सूत्रं कृत्वो- तरत्र तच्छब्देन परामर्शो व्यर्थ इति चेन्न। तच्छब्दस्य मेखलायाः पूर्वमेवोपकरुपनं कर्त- न्यमित्येतादृशार्थज्ञापनार्थत्वेन वैयमिावात् । तया, उपकल्पितया । यजमानग्रहणं पत्नीव्यावृत्यर्थम् । नाभिदेशे नाभिमध्ये । नामावित्युच्यमाने सप्तम्याः सामीप्यार्थ- कत्लशङ्का स्यात्सा मा मूत्किंतु तस्या अधिकरणार्थकत्वमादाय नाभिमध्य एव यया स्पादित्येतदर्थ देशपदप्रयोगो वाससाऽन्तरितत्वेऽपि नाभिमनुलक्षीकृत्य यो देशस्तस्मि- परिव्ययणमित्यपि बोधयति । एतेनोवं वै पुरुषस्य नाम्यै मेध्यमवाचीनममेध्यं यन्मध्यतः संनपति मेध्यं चैवास्यामेध्यं च व्यावर्तयतीति श्रुतियाख्याता भवति । नाम्यै नाभ्याः । पुरुषस्येति स्युपलक्षणम् । तेन योक्षेणापि नाभ्या मध्य एव संनहनम् । परिभाषया सकृन्मन्त्रेण द्विस्तूष्णीम् । अत्र प्रदक्षिणशब्दः प्रादक्षिण्य- वाची न भवति तस्य प्रदक्षिणं यज्ञे कर्माणि करोतीति परिभाषयव सिद्धः किंवा- नुकूल्यवाची।