पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ५९२ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रमे-

तदारूढे यजमाने पत्न्याः शिरसि जालं प्रतिमुञ्चति ।

तस्मिन्नारुढे सदारूढे तस्मिनकृष्णाजिन आरूढे कृतारोहणे यजमाने सतीत्यर्थः। प्रति- मुञ्चति प्रक्षिपति।.आऽहं दीक्षामिति जपस्याऽऽरोहणाङ्गताया वक्ष्यमाणत्वेनेतज्जपानन्त- रमेव मालप्रतिमोचनादि । यजमानग्रहणं पत्नीव्यावृत्त्यर्थम् । अनेन कृष्णाजिनं यज. मानस्यैव न पत्न्या इति सिद्धं भवति । आरोहणमपि तस्यैव । पत्नीग्रहणं यजमान- व्यावृत्त्यर्थम् । तेन जालप्रतिमोचनं पत्नीशिरस्येव न यजमानशिरसीति सिध्यति । जालं पट्टसूत्रैविरलैनिर्मितम् । माषया जाली, इत्युच्यते । जीवतो मेषस्योर्णामिरिति स्त्रान्तरे । अमावे दर्ममयमित्यपि शास्त्रान्तरे । तच्च वेदलेवलये बद्धम् । यथाऽऽह बौधायनः-विदलं कुम्मं भवति नालं कुरीरमिति ।

तामहतेन क्षौमेण वाससोर्ध्ववास्येन दीक्षयति ।

तां पस्नीम् । ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति लक्षणलक्षितेनाहतेन । बौधायनेन प्रक्षालितान्यक्लिष्टानि सदशान्यनुपयुक्ता- न्यहतानि वासांप्तीति. धर्मसूत्रे श्वेतत्वस्याहतलक्षणेऽनुपादानान्नाऽऽवश्यकता । तेन रक्तपीतादिकमपि वस्त्रमहतं भवति । नीलस्य स्मृतौ सर्वथा निषेधान्नैव तस्य कुत्रापि ग्रहणम् । क्लिष्टानि पुराणानि तद्भिन्नानि अक्लिष्टानि नूतनानीत्यर्थः । क्षोमेण शुमाऽ- तसी तत्त्वचा निर्मितेन वासप्सा । अर्थात्प्रावरणपर्याप्तेन । अनेन कार्पासादि व्यावयते । सर्वथैतदलामे तदपि । ऊर्ध्ववास्यं प्राचीनाभिर्दशामिर्वसनीयमूर्धाभिर्दशानिर्वसनीय- मिति यावत् । तथाचाऽऽपस्तम्बः-प्राचीनमात्रा वातसा पत्नी दीक्षयत्यूलवास्य झुवत इति । अत्र मात्राशब्दो दशारूपावयववाची । प्राचीनमात्रा प्राचीनमात्रेणेत्यर्थः । अथवावास्यमुत्तरीयम् । एतच्च पल्यायतन एव कृतत्वात् । वीक्षापदार्थविषये केचि- द्यावदुक्तं पल्या दीक्षितव्यञ्जनानीत्यापस्तम्बसूत्रानुरोधेन तामहतेन क्षौमेण वाससोर्ध्व- वास्येन दीक्षयतीति सूत्रादेतस्मादन्येषां दीक्षासंबन्धिपदार्थानां पल्या निवृत्ति कल्प- पन्ति तदन्याय्यम् । तस्यैष एव संचर आ सुत्याया इति. याजमानसूत्रे तच्छब्देन- दीक्षासंबन्धिपदार्थानां पत्न्यामपि प्रवृत्ते पयिष्यमाणत्वात् , न्यायविरोधात्, बौधाय. नेन स्पष्टोक्तेश्च । नालमुभयतःपाशं पत्न्याः शिरस्यामुच्येति मानवसूत्रे ।

शरमुञ्जानां मेखला त्रिवृद्वेणी कार्या ।

शरा मुञ्जा एवेति शरमुञ्जाः । या मु.मेखला कृता सा शरैरेव कृता भवति । शरमुञ्जानामित्यत्र शरग्रहणं शरभावना मुञ्जेषु कर्तव्येति । अथवा शरा इव मुलाः शरमुञ्जा इति समासः । ऊगर्दै मुञ्जा इतिश्रुत्यन्तरानुरोधेन शरमयी मेखला भवतीति