पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ [१प्र० पटलः ] गोपीनाथभट्टकृतज्योत्मान्याख्यासमेतम् । पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनावित्येतेषामन्यतमेन सन्मन्त्रेण द्विस्तू. णीमिति स्यादितरयोविकल्पार्थत्वं स्यात्तन्मा मूर्तिकतु सर्वेषां पावनकरणस्वं यथा स्यादित्येतदर्थम् । एकैकां क्रियां प्रति एकैकस्य मन्त्रस्य करणता समं स्यादश्चतत्वा- नितिन्यायसिद्धति ज्ञापयितुं मन्त्रैरिति वचनम् । तेन सराधं पावनं तूष्णीमितरे इति निरस्तं भवति । पूर्व पत्रिः पावयतीत्युक्तं तस्यायं विशेषविधिविस मित्यादिकः । नाभेरुल द्विरुन्मादि । उच्छब्दार्ध्वमेव माहिं । सकृदेकवारम् । अत एवाविच्छिद्यैव पावनम् । अन्यथा सकृत्त्वं मन्येत । अवाक्, अवाधोऽश्चति गच्छति समाता भवती- त्यवाक् । नामेरित्यनुवर्तते । नानिमारभ्य पादपर्यन्तं मार्टीत्यर्थः । अवास्त्यिापाठः । पस्त्रान्तार्हतानां पावने वचनामावेऽपि बनशिथिलीकरणस्यापि विगहितत्वाद्वस्त्रान्ताह- तानामेव पावनं कुर्वन्ति शिष्टाः । नमत्वापत्तेर्विगानापत्तेश्चेदानीम् । अच्छिद्रेण पवित्रण वसोः सूर्यस्य रश्मिभिरिति सर्वत्र मन्त्रेष्वनुषजति । अच्छिद्रेण परिणेत्यनुषनतीत्ये. सावतेवेतरयमित्रयोरीदनुषङ्गसिद्धौ सर्वश्रेति वचनं चिस्पतिर्मा पुनातु पाक्पतिर्मा पुनातु देवो मा सविता पुनास्त्विति त्रिषु याजमानमन्त्रेष्वप्यनुषङ्गलामार्थम् । आध्वर्यव- मन्त्रान्त्यमन्त्रे तु श्रुतौ पठित एवास्ति । अतो नात्रानुषङ्गः । एतदर्भपुलीलनिरसने विशेषमाह द्वैधे बौधायन:-अथैनान्यद्भिः प्रोक्ष्योदञ्च्यवरिखदेदिति । अथैनान्यद्भि. रभ्युक्ष्योदश्च्युरिखदेदिति शालीकिमतम् । उत्तानेन हस्तेन कर्तव्यं सेवनं प्रोक्षणम् । मुष्टीकृतेन हस्तेन कर्तव्यं सेचनमभ्युक्षणमित्यनयोर्मेदः । खेदन निरसनम् । अवेत्युप- सर्गादधः कर्तव्यम् । उदित्युपसर्गा_मिति निरसने भेदो द्रष्टव्यः ।

तं प्राग्वꣳशं प्रपाद्यात्र दीक्षणीयामेके समामनन्ति ।

बहिर्गतस्य यजमानस्य प्राग्वंशप्रवेश विना दीक्षणीयाया असिद्धेरर्थतः सिद्ध इर्द षचनमध्वयोंः प्रयोजककर्तृत्वार्थम् । तेनोपवेशनान्तं यजमानस्य हस्तं धृत्वा तेन कार. णीयम् । समन्त्रका क्रिया तु यजमानस्यैव । इदं च प्रयोजककर्तृत्वं बौधायनेनाप्युक्तं सविशेषम् --अथैन५ सव्ये पाणावभिपात्य शालामानयत्या वो देवास ईमहे सत्यध- माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामह इतीति । द्वैधे-अथैन सव्ये पाणावभिपात्येति दक्षिण इति पूर्वः कल्पो बौधायनस्योत्तरतः शालीकेरिति । अथैनर सव्ये पाणावभिपात्ये त्ययं विशेषोऽत्र तं प्रायश प्राय दीक्षणीयामेके समामनन्त्यत्रे- त्यन्वयः । अत्रास्मिन्काले पूर्वत्र दीक्षणीया योक्ता साऽत्र कर्तव्या न पूर्वप्रेत्यर्थः । भतिवचनाभावे प्राग्यशप्रपादनोत्तरं वैकल्पिको द्वितीया दीक्षणीयेत्यर्थः स्यात्तस्य निवृत्त्यर्थमतिवचनमावश्यकम् । अत्रेष्टिशब्दप्रयोगामानार्दष्ट हविरिदमेषां मयीत्य. १ क.संबम ३.२ इ. ज. स.अ. 'यामिष्टिम। ५५