पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

HGG . सत्याषाढविरचितं श्रौतसूत्रं- [ ७सप्तम- शिकातोऽथ दक्षिणान्येवं पद्यानीत्येकान्वयेनैव सिद्धौ मेरेन सूत्रकरणं सत्यस्याने कनिष्ठिकातोऽथ दक्षिणस्यत्यस्य क्रमस्यानित्यता ज्ञापयति । नखनिकृन्तनं पत्न्या भषि यजमानपदाश्रवणात् । आपस्तम्नेनैवं पत्नीकेशवर्नमित्यनेन नखनिकृन्तनकर्तव्य- वाया बोधनात् , बौधायनेन स्पष्टतयाऽभिधानाच ।

स यदाऽक्ताक्षो भवत्यथैनमेकविꣳशत्या दर्भपुञ्जीलै स्त्रेधा विभक्तैस्त्रिः सप्तभिः सप्तभिः पावयति चित्पतिस्त्वा पुनात्वित्येतैर्मन्त्रैर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृदवाङवमार्ष्ट्यच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति ।

स यदाऽवत्ताक्षो भवत्यथेत्यन्त सूत्रमानपावनयोः कालाव्यवधानार्थ नतु प्रयोग- कमज्ञानार्थ वृत्रस्य कनीनिकाऽप्तीत्यारम्य न पुनर्निषेचयतीत्यन्तेन याजमानप्रकरण. स्थेन सूत्रेण विधास्यमानादलनादनन्तरं तस्य ते पवित्रपत इत्यारम्य पवमानः सुव. नैन इति चैतमनुवाकमित्यन्तेन सूत्रेण पाव्यमानस्य अपं विधास्थमानेनाऽऽचार्येण याम. मानप्रकरणस्थेन सूत्रेणैव तस्य ज्ञापयिष्यमाणत्वात् । सोऽभ्यतः । इदं च तच्छन्दो. पादानं पावनविषय एनमित्येतच्छन्दोपादानं चाभ्यञ्जनाजनपावनानां संयुक्तत्व स्थापनार्थम् । तेन संयुक्तानि त्वेकापवर्गाणीति परिभाषयनत्रितयं यजमानस्य कृत्वाऽ. नन्तरं पल्या नतु एकैकमेकैकत्येति । तेनास्मत्सूत्रादपदमपि ज्ञातं भवति परन्या अप्येतत्रितयमस्तीति । यदा यस्मिन्कालेऽते असिणी यनताहशो भवति अथ तस्मि- कालेऽनन्तरमेवैनम तालमेकविंशत्यकर्षिशतिसंख्याकैदर्भपुञ्जोलैत्रेधा विभक्तस्त्रेधाति- भागवद्भिः सप्तमिः सप्तमिस्त्रिः पावयतीत्यर्थः । विशत्यायाः सदैकत्व इति कोशादेक- विंशत्येत्यत्रैकवचनम् । ननु त्रेधा विपरित्येतावदेवास्तु किमर्य सप्तभिरिति चेन्न । प्रेधा विभकैरित्यनेन विभागमात्रे प्रापित कृतविमागैः पृथग्भ्रमिलितः सर्वैरपि त्रिवार पावनमित्येतादृशानिवारणार्थत्वात्सम स्यादश्रुतत्वादिति न्यायज्ञापनार्थत्वाद्वा । दर्भ- पुजील दर्भकाण्डं सप्त दर्भा इति केचित् । बहूचब्राह्मणे तु पिञ्जुलैरित्युक्तम् । पिछ विशाखो दर्भ इति केचित् । पिञ्जूलपुञ्जीलशब्दौ पर्यायावित्यन्ये । स यदाs. कालो भवत्यौनमित्यत्र पुंस्त्वमुद्देश्यगतत्वादविवक्षित क्षेयं ब्राह्मणोऽग्नीनादधीतेतिवत् । नच सौमे वसानो जायापती अग्नीनादधीयातामिति श्रुतौ सहाधिकारश्रवणाड्राह्मण इत्यत्र पुंस्त्वत्याविवक्षितत्वं प्रकृते सहाधिकारबोध कश्रुतेर भावात्कथं पुंस्त्वस्याविवति. तत्वमिति शङ्कयम् । पूतौ जायापती दीक्षते इत्यत्रापि महाधिकारश्रुतिश्रवणात्पुंस्त्वा. विवक्षाया अनपायात् । चित्पतिस्त्वा पुनावियतमरित्यतैरिति वचनं नित्पतिस्त्वा .

  • अवागवमाति टोकानुसारी पाठः ।