पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- MER सत्यापाढविरचितं श्रौतसूत्रं- [७ सप्तमप्र- अप वपन विधिमाह-

आप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ।

गवि पृथिव्यां दीयते खापार्य यत्तदोदानं श्रोत्रसमीपवर्तिप्रदेशः । तच्च दक्षिणं सदुनत्ति क्लेदयति मादी करोतीति यावत् । उष्णोदकमिश्रणं कृताकृतम् । लक्षणया गोदानाख्यप्रदेशस्थाः केशा गृह्यन्ते । यद्यपि केशोन्दनविधेरपेक्षा तथाऽपि केश- मुलानां गोदानप्रदेशसंबद्धस्वात्तदुन्दनं विना मूलोन्दनासंमवादगोदानोन्दनविधिरिति द्रष्टव्यम् । गोशब्दस्य पृथिवीयाचित्वं निघण्टौ गौग्र्मेति पृथिवीनामा पाठात् ।

ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति ।

जाग्रामोषधिमध्वनिं दर्म गोदानात्यप्रदेशस्योपरि स्थापयति । ओषधिशब्दस्य दर्भे प्रवृत्तिों जाता ओषधयो देवेम्यस्त्रियुगं पुरेति बहिरभिमन्प्रणमन्त्रे दृष्टाऽस्ति । दमन्त पेत्येवाऽऽपस्तम्बः । दर्भपुश्रीलं वौषधिशब्देन ग्राह्यम् । तथा प कर्मान्ते बौधायनः 'सदर्भपुनीलनुवृति कतरनु स्खखि दर्भपुञ्जीळ भवतीति पदेवैतद्रोदान- योनिदधाति' इति ।

स्वधिते मैनꣳ हिꣳसीरिति क्षुरेणाभिनिदधाति ।

खधितिशब्दस्य पशुविशसमशनपरस्प नात्राभिप्रेतं प्रकृतेऽनुपयोगादित्यभिने। खाऽऽह क्षुरेणेति । क्षुरेणेति तृतीया द्वितीयार्थे । तेन क्षुरमित्येवं प्रयोगो भवति । अभिनिधानं दर्भस्योपरि स्थापनम् ।

देवश्रूरेतानि प्रवप इति प्रवपति ।। १ ।।

दक्षिणं गोदानमिति शेषः । दक्षिणगोदानस्थान्केशानिति तदर्थः । मचाः कोश. न्तीतिवलक्षणा । सदर्भाणां केशानां वपनमतानीति लिङ्गात् । सामान्ये नपुंसकमिति नपुंसकलिकता । दक्षिणं गोदानमारभ्य प्रदक्षिणं सर्वान्केशान्वपतीत्यर्थसिद्धम् । एतदभिप्रापेणैवोत्तरगोदानावचनम् । उन्दनादिसंस्कारा दक्षिणगोदानप्रदेश एवं कार्या इति दर्शयितुं दक्षिणगोदानवचनं नवितरकेशवपननिवृत्तिरनेन कियते । अत एव पूर्वन सामान्यतः केशवपनप्रतिज्ञानं कृतं श्मश्रूण्यग्रे वापयतेऽथोपपक्षावय केशानिति । भतावपि श्रुतं मृता वा एषा स्वगमेध्या यत्केशश्मनु मृतामेव स्वचममेध्यामपहत्य यज्ञियो भूत्वा मेवमुक्तीति । तूष्ण वोत्तरं गोदानं पारिशेष्यात् । शिखायास्तु नैव वपनम् । सवेषु तु वचनाद्वपनं शिखाया इति धर्मसूत्रात् । सदोपवीतिना भाव्यं सदा वद्धशिखेन च । विशिसो व्युपवीतश्च यत्करोति न तत्कृतम् ॥ इतिस्मृतेश्च । कम् । य।