पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० पढळ: ] गोपीनाथभट्टकृतभ्योत्साव्याख्यासमेतम् । ऋदिव्युदासस्नु सुतराम् । ऋत्विजां प्राधान्याभावात् । जैमिनिरपि तृतीयाध्याये सप्तमे पादे फलसंयोगात्तु स्वामियुक्तं प्रधानस्येत्येतेन सूत्रेणाऽऽह । सूत्रार्थस्तु स्वामि- युक्तं वपनपयोवतादिकं प्रधानस्य धर्मः । कुतः, फलसंयोगात्फलभाक्त्वरूपभोक्तृत्वातं. योगात् , योग्यताजननद्वारा प्रधानफलोत्पत्त्यर्थत्वादिति येति । श्मश्रूणि च केशाश्च केशभश्रूणि । केशशब्दस्यादन्तत्वात् , यच्छ्मश्रुणस्तत्पुरुषाणा५ रूपमिति श्रुतेः श्मश्रुणः पुरुषशोभाधायकत्वेनाम्याहितत्वाद्वा पूर्वनिपातः । उत्तरत्र कर्म(कम)विधानास्क: मविधायकं नैतत् । केशश्मश्रुग्रहणं लोमोपलक्षणम् । न चेदुपपक्षयोः क्रमनियमायोगात् । वापयत इत्यत्र स्वार्थे णिच् । तेनाध्वयुरेव वपेत्, नतु तेन वापयेदिति । कृते नापित- कृत्य इति याजमानमूत्रमस्मिन्नये लिङ्गम् । लोकविद्विष्टत्वाच्छिक्षाया अभावाच मन्त्रेण किंचिद्वपनं कृत्वा नापितेनावशिष्टं कृत्स्नं वपनं कारयेत् । एतेन रथकारवन्मन. पाठकल्पनाऽपि निरस्ता।

श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशान् ।

अत्र पुनर्वापयत इति वचनं देवं वपनमाप पक्षेऽत्र भवतीतिज्ञापनार्थम् । उक्त चैतत्स्पष्टमापस्तम्बेन-उत्तरेण बहिः प्राग्वंश परिश्रिते यजमानः केशश्मश्रूणि वापयत उपपक्षावग्रेऽथ श्मश्रूण्यथ केशानपि वा इमश्रूण्युपपक्षावथ केशानिति । प्रयोजकत्या- र्थक एवात्र णिच् , नतु स्वार्थ इत्येतादृशनियमज्ञापनार्थ वा गोदानोन्दनं तु अध्वर्युक- लॅकमेव । युक्तं चैतदध्वर्युकर्तृकत्वं समन्त्रककर्मत्वात् , णिजमावाच्च । नखनिकृन्तनमप्य- ध्वर्युकर्तृकमेव । णिजभावात्कृते नापितकृत्य इति पूर्वोक्तलिकाच । वपनमन्त्राणां यपनकरणत्वादेव मध्ये मन्त्रपाठो न दोषायेत्येवमेव कल्प्यं शिष्टसमाचारानुरोधात् । लिङ्गमप्यत्रास्ति केशेषूप्यमानेषु जपतीति । मुखगताः केशाः श्मशूणि । उपपक्षो बागुमूलम् । नापितोप्तोपपक्षां मे निकृत्तनखा प्रबूतादिति बौधायनोक्तप्रैष उपपक्ष- शमस्यात्रैव रूढिदर्शनात् । कपोलभाग इति केचित् । शिरोगताः केंशाः केशा एव संज्ञान्तराभावात् । अग्रग्रहणं नियमार्थम् । अग्र आदावेव इमणि वापयत इत्यर्थः । तेन मध्यश्मश्रुवपनस्याऽऽसुरवपनस्थ व्यावृत्तिः। यद्यपि मध्यश्मश्रुवपनत्वादेवस्यापि . निवृत्तिः सिद्धा तथाऽपि अनन्तरोक्तज्ञापकबलात्तस्य न निवृत्तिः । अपोपपक्षावथ केशानित्युभयनाथशब्दो ब्राह्मणानुकरणार्थः । अथवाऽथोपपक्षावित्यवाथशब्द उभया- धिकारप्रदर्शनार्थः । तेन पत्न्या अप्युपपक्षवापनं सिद्धं मवति । उक्तं च बौधायनेन- नापितोप्तोपपक्षामित्यादिना प्रेषेण । अथ केशानित्यत्राथशब्द उभयाधिकारव्यावृ. त्यर्थः । तेन केशवापनं यजमानस्यैव न पत्न्याः। एवं पत्नी केशवर्नमित्यापस्तम्बोऽपि । क. 'न के।