पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८० सत्यापाढविरचितं श्रौतसूत्रं- सप्तमधी- भत्रो ,ह स्माऽऽह शालीकिः कामं पूर्वाहे वाऽपराहे वा शालामध्यवस्येत्प्राक्त्वस्त। मयाद्दोक्षणीयां सतिष्ठापयिषेदिवि । यजमानोऽपराहे दीक्षत इति विधि संपादयितु- मध्वर्युम स्तमयात्प्रागेव दीक्षणीयष्टिं प्रतिष्ठापयिषेत् । संतिष्ठापयितुं समापयितुमी. च्छेदित्यर्थः । अस्तमयात्मागेव दक्षिणीयां समापयितुमध्वयु प्रयोजयेत् । अध्व युशघ्याधीनत्वात्समाप्तेरिति भावः । संतिष्ठापयेदिति पाठ ऋजुरेव । दीक्षितो न कांचनाऽऽहुति जुहोत्यन्यत्र ऋतुसंयुक्ताम्स इत्यनेन श्व:प्रभृति प्रातोममा. स्भ्यः सर्वेषां होमानां निषिद्धत्वाल्लोपे सायंप्रातहोमयोरेकफलकत्वेन प्रथमदिन. चम्धिसायहोमस्यापि लोपार्थम स्तमयात्प्राग्दीक्षणीयासमातिरावश्यकौति भावः । पदा कदाचिद्दोक्षणोयेष्टेरस्तम या प्रागसमाप्तिस्तदा मध्य एव सायमग्निहोत्रमपकृष्य प्रातर- मिहोत्रं च समासप्रकारेण हुत्वा कृतान्तादिष्टिं समाप्य विरम्य परेयुः सर्व प्रायश्चित्तं हुत्वाऽपराहे दीक्षत इति विधिबलात्परेयुरेव वपनादि । प्राकृतीष्टेस्तु तदानी कालाभावालोप एव । अस्मिन्विषय एकापूर्वजनकत्वनिर्वाहाय क्रतुलमाप्त्यन- न्तर लोपप्रायश्चित्तं कर्तव्यमेव । अथवा सर्वप्रायश्चित्तं हुत्वा तदैव दीक्षा सर्वप्रायः श्विनहोमो दीक्षानन्तरं वा । यदि तु दक्षिणीयेष्टयारम्भात्यागेव सूर्योऽस्तमेति तदा परेः युरेव दीक्षणायेष्टयादि । प्रातरग्निहोत्रहोमस्तु स्वकाले भवत्येव । कालसत्त्वे प्राकृतीष्टि- रपि नो चेल्लोपप्रायश्चित्तमेव तदैव वा दीक्षणीयेष्ट्यादि । अस्मिन्पक्षे प्रातहोमपा कैर्षः प्राकृतेष्टिप्रकारश्च पूर्ववत् । यदि त्वारवाया दीक्षायाः प्रतिबन्धवशेनासमा प्तिस्तदा सर्वप्रायश्चित्तं हुत्वा शिष्टं कर्म तदैव समापनीयम् । द्वादशसंमारयजुहीमा. प्राग्यदि सूर्योऽस्तमेति तदा तु परेयुरेव संभारयजुर्होमादि नतु तदैवेति द्रष्टव्यम् ।

प्राचीनवꣳशं विमितं विमिन्वन्ति ।

पुरस्तादुन्नतम् । विमितमिति भूतार्थे क्तप्रत्ययः । मिन्वन्तीत्यस्योपसर्गवलादु. परिष्टादाच्छादयन्तीत्यर्थः । तेन दीक्षणीयायाः प्रागेव विमानम् । अत्रोपरिष्टादाच्छा. दनादि । एतेन दीक्षणीयोत्तरं प्राग्वंशविमानं कथं भवति देशस्य व्यापृतत्वादिति शङ्का परिहता भवति । प्राचीनवश्शं करोति देवमनुष्या दिशो व्यभजन्त प्राची देवा दक्षिणा पितरः प्रती थी मनुष्या उदीची रुद्रा इति श्रुतौ दिग्विभागस्त्वर्षवाद एव । तथा च तृतीयाध्याये चतुर्थपादे नैमिनिः-दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वादिति । दिविभागः प्रतीच्या दिशो मनुष्यकर्तृको विभागोऽपि निवीतवदर्थवादार्थः । प्रायेण पूर्वाह्ने व्याप्रियमाणानां मनुष्याणामादित्य पृष्ठतः कर्तुं प्रतीचोसंबन्धस्यार्थतः प्राप्तत्वेन तत्र विध्ययोगादिति सूत्रार्थः । निवीताधिकरणत्रदेव सर्वमत्र । तथा च तेनैव गतार्थ.. खेऽपि निवीतं मनुष्याणामित्यत्र प्रत्यक्षविध्यश्रवणादर्थवादत एव विधिः कल्स नीयः । क. यदि । २ ख, ग, 'कर्षप्रा ।