पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटनः] गोपीनाथभट्टकृतज्योत्पाव्याख्यासमेतम् । ५७९ पम् । तेन समन्त्रमेव प्रतिपत्तिकर्माणि । वेदप्रतिपत्तिरपि समन्त्रैव । योक्त्रमोचनव्रतवि। सविपि समन्त्रमेव मवतः । अवभृषोत्तरमाविनोदयनीयादीष्टिषु सर्वाण्युत्तरासु क्रियन्त इत्यनेन सनहनवतोपायनयोः कर्तव्यतायां बोधितायां दीक्षणीयायामेतयोरार्षिकी सिद्धिरवगता मवति । अन्यथा दीक्षणीयायां कृतयोर्योक्त्रसनहनवतोपायनयोरुदय- नीयायां विमोचनविसर्गयोः करणे सर्वाण्युत्तरासु कियन्त इति सूत्रत उदयनीयेष्टी प्रतोपाय विधानमसंगतं स्यात् । प्रकरणादेव दीक्षणीयालामे. पुनर्वचनमत्रैव प्रतिपत्ति- कर्माण्यावश्यकानि न खण्डायां प्रायणीयायामपत्येतदर्थम् । नन्वेवं तस्मादेता एत- दन्ता इष्टयः सतिष्ठन्त इति श्रुतिविरोध इति चेन्न । अप्रतिपत्तिकर्मभिरेतदन्तरेवेष्टयः संस्थिता भवन्तीत्येतादृशकल्पनया विरोधाभावान् । भक्षयित्वाऽऽज्येडां विरमन्तीत्ये: तावतैव सिद्धे पत्नीसंथानान्ता दीक्षणीया सतिष्ठत इतिवचनं पत्नीसयाजान्तत्वप्रतिपान, दकविधिवाक्यस्याऽऽज्येडाभक्षणान्तत्वमेवार्थ इति दर्शयितुम् । तेन यत्र यत्रं पत्नी. संयानान्तत्वं श्रूयते पत्नी संयाजान्तोऽग्नीषोमीयः संतिष्ठते पत्नीसंयानान्तमहः संतिष्ठत इत्यादौ तत्र तत्राऽऽज्येडामक्षणान्तत्वं सिद्धं भवति । भक्षयित्वा55- ज्येडामित्यत्राऽऽज्यग्रहणं यत्र निरुपपदेडामहणं तत्र प्रधानहविःसंबन्धीडाया एव. संप्रत्यय इतिप्रदर्शनार्थम् । यथाऽऽतिथ्यायामिडान्ताऽऽतिथ्येत्यत्र विरमन्ती त्यत्राप्रतिपत्तिकर्मभ्य इति शेषः । एतावता पत्नीसंयाजान्तस्वमस्त्येवेति । पत्नी.. संयाजाता दीक्षणीयेत्येतावत एव वाक्यस्य मक्षयित्वेत्यारम्य विरमन्तीत्यम्नेनार्थः प्रदश्यते । भक्षयित्वेत्यत्रान्तर्भावितो णिच् । तेनाऽऽज्येडाभक्षणस्योभयकर्तृकत्वेन बहुकर्तृकत्वामावेऽपि प्रयोजकत्वमादाय विरमन्तीतिबद्वचनबोधितबहुकर्तृकक्रियासा. मानाधिकरण्यं समानकर्तृकरवं घोपपन्नं भवति । तथाचायमर्थो माति-होतारमानी, थाऽऽज्येडामक्षणं कारयित्वा विस्मन्त्यप्रतिपत्तिकर्मभ्योऽध्वर्युब्रह्मयजमानाः । याजु. घहोत्रसत्व आज्येडाभक्षणोत्तर मेदिप्रतिपत्तिमात्रमवशिष्टं तद्भवत्येव । आग्नीघस्य स्वये. कर्मैव नास्ति । पूर्वत्र दीक्षणीयाकरणपक्षे योक्त्रविमोचनं कर्तव्यमेव । यजुःशाखिनि यज़माने यानुषहौत्रस्य सत्तेऽपि मार्जनं न भवति नेदमादिषु मानमर्वागुदयनीयाया इत्याश्वलायनोकस्य माननिषेधस्य वैशेषिकशास्त्रत्वेनात्रापि प्रवृत्तेः ।

धारयत्याहवनीयम् ।

यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽग्निरिति परिभाषया क्रतु. समाप्तिपर्यन्तं धारणं न पुनः पुनः प्रणयनम् । प्रधानदेवतामात्रपरिग्रहार्थया दीक्षणी- यया परिगृहीतस्य देवतारूपामेस्त्यागायोगादिति भावः । प्रधानदेवतामात्रपरिग्रहार्थत्वं दीक्षणीयाया इत्यत्र साधकम वक्ष्यते । दीक्षणीयायां विशेषमाह बौधायनो द्वैधे- १खन, नम।