पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। > ८९२ -सत्यापाढविरचितं श्रौतसूत्र- [ (अष्टमप्र:- विष्टेऽध्वयों तपस्यश्चेति प्रतिप्रस्थाता। उपयामगृहीतोऽसि समर्पोऽस्य हस्पत्याय वेत्येताम्यां मन्त्राभ्यां सहैव गृहीत्वा प्रतिप्रस्थातव प्रथमतः प्रवृत्तत्वात्यं दत्योभी सहवषट्कृते हुत्वा संपातावनयनं कुरुतः । अथ भक्षः-तत्राच्छावाकमक्षान्तो भक्ष. क्रमः पूर्ववत् । ततः प्रथमे भक्षे होमध्पोरेव सह न प्रतिप्रस्थातुः । द्वितीये भक्षे होतृ- प्रतिप्रस्थात्रवणां मक्षः । स्वयं वा निषद्य यजत इत्येतस्मिन्पक्ष एकादशे भक्षे पूर्व- वध्वर्युप्रतिप्रस्थात्रोरेव भक्षो न होतुः स्वकर्तृकयाज्यायाम् । यजमानसंबन्धियाज्यायां तु प्रतिप्रस्थानध्वर्योरेव यजमानेन सह मक्षः । प्रतिप्रस्थातुः प्रथमतः प्रवृत्तत्वात्पूर्व तस्य पश्चादध्वर्योः । यदि त्वाद्ययोः सहहोम इति पक्षस्तदा मधुश्चेति मन्त्रेणाध्वर्युमधिवश्वेति मन्त्रेण प्रतिप्रस्थाता सहैवोभी गृहीत्वा सहैव वषटूकते हुत्वा संपातावनयनं कुरुतः । अतुना प्रेष्येति प्रेषोऽध्वरिव । शुक्रश्चेत्यध्वर्यु भितुना प्रेष्येति प्रैषः शुचिश्चेति प्रति- प्रस्थाता, ऋतुना प्रेष्येति औषः । नमश्चेत्यध्वर्युमतुना. प्रेष्येति श्रेषः । नमस्यश्चेति प्रतिप्रस्थाता, परतुना प्रेष्यति प्रेषः । इषश्चेत्यध्वर्युतुना प्रेष्येति श्रेषः । ततः पात्र- मुखविपर्यासः । उर्जति प्रतिप्रस्थाता । ऋतुभिः प्रेष्येति प्रैषः । सहश्चेत्यध्वर्यु तुभिः प्रेष्येति प्रेषः । सहस्यश्चेति प्रतिप्रस्थ ता, अनुभिः प्रेष्येति प्रैषः । तपश्चेत्य- ध्वर्यप्रतिभिः प्रेष्यति औषः । ततः पात्रमुखविपर्यासः । तपस्यश्चेति प्रतिप्रस्थाता, ऋतुना प्रेष्येति श्रेषः पृथगेव जुहोति न सह । नात्र संपातावनयनं सहोमाभावात् । उपयामगृहीतोऽसि स५सोऽस्यहस्पत्याय त्वेत्यध्वर्युः पृथगेव गृह्णाति पृथगेव जुहोति च । नात्रापि संपातावनयनं महहोमाभावात् । भक्षस्तु होत्रा सहाऽऽद्यो भक्षोऽध्वर्युप्रतिप्रस्थात्रोः । तत्र मुखतः प्रवृत्तत्वादध्वयोः पूर्वम् । पश्चात्प्रतिप्रस्थातुः । ततः पोत्रा सहाध्वर्युः । नेष्ट्रा सह प्रतिस्थाता | आग्नीघेण महापर्युः । ब्राह्मणाच्छं- सिना सह प्रतिप्रस्थाता। प्रशास्त्रा सहाध्वर्युः । होत्रा सह प्रतिप्रस्थाना | ततः पात्र- मुखविपर्यासः । ततः पोत्रा सहाध्वयः । नेष्ट्रा सह प्रतिप्रस्थाता । अच्छावाकेन सहा. ध्वर्युः । ततो होत्रा सहापर्युः पृथगेव भक्षयति । एवं प्रतिप्रस्थानाऽपि होत्रा सह पृथगव भक्षयति । अत्रोभयोरपि प्रतिभाक्षतुरखोपाह्वानमिति विशेषः । याज्यास्तु प्रथ. मद्वितीय ग्रमन्त्रकरणकग्रहणयोहोतुर्याज्या । तृतीये तु पोतुः । चतुर्थे नेष्टः । पञ्चम आग्नीधस्य । षष्ठे ब्राह्मणाच्छंसिनः । सप्तमे प्रशास्तुः । अष्टमे होतुः । नवमे पोतुः । दशमे नेष्टुः । एकादशेऽच्छाबाकस्य । द्वादशे होतुः प्रथमा याज्या । त्रयोदशे होतु- द्वितीया याज्या। स्वयं वा निषद्य यजत इत्येतस्मिन्पक्षेऽन्तिमयोज्यियो)तृकर्तृकता. बाधः । मक्षस्य बाधः। एतत्पक्षानुप्तारिप्रयोगस्तु अनन्तरमुक्त एव । चतुर्दशपक्षे विनिवे. शस्तु त्रयोदशग्रहग्रहणपक्षीयाद्यग्रहतहहोमपक्षवत् । अत्र त्रयोदशचतुर्दशयोहोंतुद्धि- तीया याज्येति विशेषः । अथ मक्षः-तत्राऽऽये भक्षे होत्रध्वर्युपतिप्रस्थातारो निमित्तक्रमानुसारेण परस्परमुपहूय भक्षयन्ति । द्वितीये भक्षे पोत्रा सहाध्वर्युः ।