पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

GEG सत्याषाढावरचितं श्रौतसूत्रं- . [ अष्टमपने- मक्ष इति वक्तव्ये मन्त्रग्रहणं वैकल्पिकयोमन्त्रयोर्यो मन्त्रोऽध्वर्युणा परिगृहीतः स एव होत्राऽपि परिग्रहीतव्य इत्येतदर्थम् ।

सर्वेषां प्रथमो होता सकृत्सकृद्भक्षयति द्विः स्वे चमसे पुनः।

सर्वेषां मक्षतणां मध्ये प्रथमः हाता सर्वचमसानां सकृत्सकृद्भक्षणं करोति स्वचमसे द्विः । पुनःशब्दोऽवधारणे द्विः खे चमस एवेत्यर्थः । अनुवषट्कारस्य चम- सगतसोमसंस्कारकत्वात्तस्य चानुवषट्कारनिमित्तभक्षणस्य स्वसत्ताकचमसमक्षण एवं प्रवृत्तेरुचितत्वादिति भावः । प्रातःसवनमाध्यंदिनसवनयोहौतृचमसे प्रतिमक्षितुरभावा- तन्त्रेण समाख्याभक्षस्य सिद्धिः ।

अभ्युन्नीतानामध्वर्युर्द्विर्भक्षितानाꣳ सकृत्सकृद्भक्षयति ।

द्विभक्षितानामित्वत्र प्रशास्त्रादिमिश्चमतिभिर्वषट्कारनिमित्तमनुवषट्कारनिमित्तं च द्विवारं मक्षितानां चमसस्थरसानां सतामध्वर्युर्योोमाभिषवोभयनिमित्तकं सकृत्स. कृद्भक्षणमित्यर्थः।

तृतीयꣳ होत्रका अन्ततः।

होमाभिषवान्यामध्वयोमक्षो वषट्काराच वषट्कणा समाख्यानाच्चमसिनां वषट् कर्ता पूर्वो भक्षयति ततोऽध्वर्युनंघन्यश्चमसीत्यनेन मध्यतःकारिणां होत्रकाणां च समाख्याभक्षः प्राप्यते । तृतीय५ होत्रका इत्यत्र तृतीयग्रहणं यदि मध्ये प्रतिभक्षिता तदा समाल्यासः पृयामरति अन्यथा तन्त्रं वषट्कारनिमित्तकभक्षसमाख्याभक्षयोहों... प्रकविषय इतिज्ञापनार्थम् । होत्रकाशामवात्र पृथग्भवति प्रतिभक्षितमत्त्वान्न तन्त्रमेते. षाम् । होतुस्नु नान समाख्याभक्षः पृथक्प्रतिभक्षितुरभावात्तस्य तु आद्ययाः सवनयोः प्रतिक्षितुरमावासमाख्यामक्षस्तणैव । यत्र यत्र प्रतिमक्षितुरमावस्तत्रोपट्यैव, मणम् । अन्ततोऽन्ते ।

असर्वान्भक्षयित्वाऽऽप्यायस्व समेतु त इत्याप्याययन्ति ते नाराशꣳसा भवन्ति ।

पपसिन इति शेषः । लोमेन वसतीवरीमिर्वा वर्धनमाप्यायनम् । आप्याययतीति लिङ्गात् । मन्त्रेणाभिमनिमित्यन्ये । तथाऽभिमशेरन्नित्याश्वलायनः । कात्यायनस्त्वाह-- आप्यायस्व समेतु त इति द्वाभ्यां चमत्तानालभन्ते सोम वा सिञ्चतीति । बौधायनस्तु वसतीवरीः प्रकृत्याऽऽहृताभिराप्याययेत्ताभिरभिषुगुयादिति । ते नाराशमा भवन्ति । एवमाप्यायिताश्चमसा नराशंसदेवतात्वान्नाराशंससंज्ञां लमन्त इत्यर्थः । १ क. ग. प्रथम १२ कस्तत्रानुप' ।