पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

GGO सत्यापाढविरचितं श्रौतसूत्र- [अष्टमप्रभे- शुक्रो द्रोणकलशस्थः सोमस्तस्यैकदेश स्वल्पं स्वल्पमाभिमुख्येन स्खे से चमस आनी- याध्वयुसमीपमागच्छन्तीत्यर्थः ।

तैरध्वर्युः प्रचरति ।

ः पुनरभ्यूनीतः । ममसंबन्धि यद्यत्कार्य तत्तेषां चमसाध्वर्युसंज्ञया प्राप्त तद्वा- रणार्थमध्वर्युग्रहणम् । अध्वर्युशब्दस्य तेषु गौणत्वान्मुख्यासंभव एव तेषां कर्तृत्व- मिति भावः । अयमर्थ उत्तो जैमिनिनाऽपि चमसांश्चमसाध्वर्यवः समाख्यानादिति सूत्रेण ।

मैत्रावरुणचमसमादाय प्रशास्तर्यजेति संप्रेष्यति वषट्कृतानुवषट्कृते हुत्वा चमसाध्वर्यवे प्रयच्छति सदो भक्षꣳ हरति ।

अत्र चमसमन्वारभ्याऽऽश्रावणम् । प्रत्याश्राविते तमादाय प्रैष इति विशेषोऽत्र । चमसाध्वर्यवे प्रयच्छत्तीतिविधानादेवार्थादध्वोरत्र कर्तृतायां सिद्धायां पूर्वत्राध्वर्युवचन मैत्रावरुणचमसाध्वर्युोमं कृत्वाऽन्यस्मै यस्मै कस्मै चमसाध्वर्यवे प्रयच्छतीत्ययमप्यर्थः संभाव्येत त व्यावर्तयितुम् ।

एवमुत्तरैः प्रचरति ॥ १८ ॥

एवमित्यनेन तं तं चमसमन्वारभ्याऽऽश्रावणं प्रत्याश्राविते तं तमादाय प्रेषो वषट्- कारानुवषटकारयोहमिश्चमसाध्वयवे तस्य तस्य प्रदानं तस्य सदा प्रति हरणं चातिदिश्यते । तत्र प्रेषेषु विशेषमाह-

ब्रह्मन्यजेति ब्राह्मणाच्छंꣳसिनं पोतर्यजेति पोतारं नेष्टर्यजेति नेष्टारमनीद्यजेत्याग्नीध्र्रम् ।

मैत्रावरुण यज, ब्राह्मणाच्छसिन्यज, आग्नीध्र यजेत्येवं रूपाः प्रैषा अपि संमा. वितास्ते व्यावृत्ता भवन्ति । पोतर्यन नेष्टर्यजेत्यनयोः क्रमप्राप्तत्वाद्ग्रहणम् । अर्थः स्पष्टः । संप्रेष्यतीति शेषः सर्वत्र ।

तस्य चमसमादाय सदो गच्छति स होतुराचष्टेऽयाडग्नीदिति।

तस्याऽऽग्नीधस्य । तस्य चमतमादायेतिवचनं स्वयंहरणार्थम् । सः, अध्वर्युः । तच्छ- ब्दश्चमसहस्तस्याध्वर्योः परामर्शाय । तेन प्रश्नोत्तरयोजीतयोरेवाऽऽग्नीधचमसनिधानं नतु तत्पूर्वमिति सिद्ध भवति होतृाहणं के प्रत्याख्यानमिति संशयनिवृत्त्यर्थम् । षष्ठी- निर्देशः प्रभापेक्षतां गमयति । तेन होत्रा पृष्टः सन्नेवायाडनादिति आचष्टे प्रश्नोत्तर व्यादिति अर्थः सिद्धो भवति । अयाडिष्टवानग्नीदाग्नीध्र इति वाक्यार्थः । १. ज.म. म. कृत।