पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स०पटल . गोपीनाथमदृकृतज्योत्साव्याख्यासमेतम् । ८७९ ग्रहणस्याऽऽवश्यकत्वात् । संस्त्राव्य संस्राव्येति संत्रायम् । णमुलन्तमिदम् । प्रति. प्रस्थातृग्रहणमध्वर्युव्यावृत्तये । सर्वहुतमितिवचनं बिन्दुमात्रमपि यथा नावशिष्टं भवति तथा सर्वस्य होमः कर्तव्य इत्येतदर्थम् । सर्वः सोमो हुतो यस्यां कियायां यथा भवति तथेति क्रियाविशेषणम् । जुहोतिचोदितत्वास्वाहाकारः । सोमस्यापूर्वस्वान दविहोमधर्माः । प्रतिपत्तिकमैतत् । होमस्य रुद्रदेवत्यत्वादुदकस्पर्शः । रुद्रदेवत्यत्व मेष ते रुद्र माग इति मन्त्रवर्णात् । न तत्र रुद्रः पश्नभिमन्यत इति बामणाच । आपस्तम्बोऽन विशेषमाह-आर्तपात्रमेतद्यामन्धिपात्रं यमृत्विनां द्विण्यात्तस्मै हरेदा. छतहिति विज्ञायत इति । आर्तिकरमेतत्पात्रमतो न तानूनष्त्रिणां सकाशं नयेदायतन एवं सादयदिति भावः । ब्राह्मणेऽपि -ब्रह्मवादिनी पदन्ति कस्मात्सत्यान्मन्धिपात्र सदो नाचत इत्यातपात्र हीति याद्यदभुवीतान्धोऽध्वर्युः स्यादातिमाईतस्मा- साभुत इति।

मध्यतःकारिणां चमसाध्वर्यवोऽनुवषट्कृते जुह्वति।

सष्टम् ।

प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातुः प्र यजमानस्य प्र सदस्यस्येति संप्रेष्यति ।

प्रेतु प्रकर्षेण गच्छवित्यर्थः । तत्तद्धोमानन्तर्यमेव गमने प्रकर्षः । उद्गातृचमसे प्रस्तोतृपतिहोंः संबन्धेऽपि जैमिनिमते सुब्रह्मण्यसंबन्धेऽपि उद्गारतुरेव मुख्यत्वादेक- वचनम् । सदस्यपक्षे प्रसदस्यस्येति । प्रब्रह्मण इत्यादिषु प्रशब्दोत्तरमेतु इत्यस्या- न्वयः । ब्रह्मण इत्याद्यनन्तरं चमतशब्दस्यान्वयः । तथा चायमों निष्पन्नो भवति- 4तु ब्रह्मणश्चमसः प्रेतद्गातुश्चमसः प्रेतु यनमानस्य चमतः प्रेतु सदस्यस्य चमस इति । श्रेषपाठस्तु यथापठित एव । प्रैषार्थ विवृणोति-

सदो भक्षान्हरन्ति ।

सद इति द्वितीयकवचनम् । सदः प्रति होत्रादिसदस्यान्तचमतस्थाः सोमा भक्षा-- स्तान्हरम्ति पमसाध्वर्यव इत्यर्थः ।

सूदवच्छुक्रपात्रꣳ सादयति ।

सूदशब्दः शेषवाची, तद्वच्छुक्रग्रहस्य पात्रं सादयति । अव॑युरेवेति शेषः ।

शुलपात्रस्याध्वर्युसंवन्धित्वात् । आयतन एव । तथा चाऽऽपस्तम्बः-सूदच्छुकपात्र: मायतने सादयित्वेति ।

होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युनीयोपावर्तन्ते ।

भैत्रावरुणादीनां होत्रकाणां: चमसाध्वर्यवः खं स्वं चमसं सकृत्सकृदेव हुरषा -