पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६६ सत्यापाढविरचितं श्रौतसूत्र- [(अष्टमप्रभे-

संप्रैषास्त्वेकधना याज्याः।

एक प्रधानमेव धनं स्वरूपं भेदकमिति यावत्तद्येषां ते ह्ये कधनाः । धनज़ब्दस्य स्वरूपपरत्वं सूत्रार्थानुगुण्यात्स्वी क्रियते । अथ वा धीयते वर्तते स्वरूपं भेदकं येषु इत्यर्थः । पृषोदरादित्वात्साधुत्वम् । तेनात्र स्वरूपभेदाद्भिन्नाभिन्ना एव नत्वेकरूपा इति । परिमे यज्या यनिसंबन्धिन इत्यर्थः । यागसंबन्धिनः प्रैषा इति यावत् । यज्या इत्यत्र दिगादित्वाद्यत्प्रत्ययः । यज्या एव याज्याः स्वार्थेऽप्रत्ययः । याज्यास- प्रैषास्तु एकधना इत्यन्वयः ।

तत्राध्वर्युराश्राव्य प्रत्याश्रावितेऽमुष्मै प्रेष्येति मैत्रावरुणं प्रेष्यति स होतारं चोदयति ।

पूर्वप्राध्वर्युग्रहणं प्रतिप्रस्थाशुपक्षणार्थम् । याज्याविषयकोषेषु इदं सूत्रम् । अमुष्मा इत्यत्र चतुर्थ्यन्तदेवतापदमुच्चारणीयम् । अमुष्मै प्रेप्पति एतत्प्रैषवचनमुपल. क्षणं प्रातः प्रातः सावस्य शुक्रवतो मन्थिवतो मधुश्रुत इत्यस्य प्रैषस्याऽऽश्रावण- सहितस्य । स मैत्रावरुणो होतारं चोदयति याज्यां वक्तुं प्रेत्यतीत्यर्थः । एतदन्तः प्रपञ्चः सोमतस्य साक्षाद्दर्शपूर्णमासापेक्षत्वं नास्तीति प्रदर्शयितुम् । एतदभिप्रेत्यैव प्रमापतिदेवासुरानसूनत तदनु यज्ञोऽसृज्यतेत्यस्मिन्ननुवाके पुनराश्रावणादिप्रपञ्चः ।

वषट्कृते जुहोत्यनुवषट्कृते हुत्वा हरति भक्षम् ।

स्पष्टम् ।

सर्वसोमानामेष कल्पः ।

सर्वे सोमा ऐन्द्रवायवादयस्तेषामित्यर्थः । वषट्कृते जुहोत्यनुवषट्कृते हुत्या हरति भक्षर सर्वसोमानामेष कल्प इत्यनेन सर्वत्रानुवषट्कारप्राप्तौ केचिद पवादमाह-

द्विदेवत्यर्तुग्रहेष्वादित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यते कृताकृतः शुक्रामन्थिनोः पात्नीवते च ।

अनुवषट्कारस्य शुक्रामन्थिमात्रविषय. एचैतत्कृताकृतत्वम् । मध्यतःकारिचमसार्थ तु स नित्य एव भवतीत्यर्थात् । किमर्थमिदं सूत्रे सामान्यतो ज्ञानाय । कर्मकाल एतसूत्रपठनमावश्यकम् । एतदकरणे यजुर्भेषप्रायश्चित्तम् । दक्षिणाग्नौ फलं त्वदृष्ट- मेवात्र । वषट्कारसाध्यप्रक्षेपावरसंगैत्याऽत्र परिभाषानिरूपणम् ।

द्विदेवत्यैः प्रचरतः।

प्रासङ्गिक परिसमाप्तमित उत्तरमनुष्ठेयं कर्मोच्यत इत्यवधानार्थमिदं प्रतिज्ञासूत्रम् । द्विदेवत्यर्तुग्रहेष्वदित्यग्रहसावित्रयोश्च नानुवषट्कारो विद्यत इत्यत्र द्विदेवत्यान्मक्षय- न्तीत्यादौ च संज्ञायाः प्रयोजनम् । अर्थः सष्टः । X