पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ८६२ सत्याषाढविरचितं श्रौतसूत्र- [(अष्टमप्र-

अत्र पशुं विशास्ति ।

अन्तर्भावितो णिजन ज्ञेयः । तेन शमितारं पशु विशासयतीत्यों भवति । एतेन शमितः पशुं विशाधीत्ययं प्रैषोऽप्यत्रैवाध्वर्युणा वक्तव्य इत्यपि सिद्धं भवति । तेन हविष्कृता वाचं विसृज्य पशु विशास्तीतिपशुसूत्रोक्तविशसनकालो वाध्यते । अत्रा- स्मिन्काल एव पशु विशास्ति न तु पशुपुरोडाशसंबन्धिहविष्कृदेहीतिप्रेषकरणकवा- विसर्गोत्तरकाल इति ।

श्रप्यमाणः सर्वाणि सवनानि परिशेते तृतीयसवने वा श्रप्यते ।। १४ ।।

श्रष्यमाण इति पशोर्विशेषणम् । सर्वाणि सवनानि परिशेत इत्यनेन मन्दज्वाल- पाऽनयागकालपर्यन्तं यथा सुशृतो भवति बग्यो विशीणों वा न भवति तथा परिशेते श्रप्यमाण एव स्थितो भवतीति बोध्यते । परिशेरत इति पाठे बहुवचनस्य च्छान्दस- व ज्ञेया, श्रष्यमाण इत्येकवचनेन विरोधात् । तृतीयसवने वा श्रप्यत इत्यस्मिन्पक्षेऽपि विशसनमत्रैव श्रपणमात्रं तृतीयप्तवनारम्भकाल आरम्भणीयमिति । इत्योकोपाहश्रीमदनिष्टोमयाजिसाइस्रानियुक्तवाजपेययाजिसर्वतोमुख या- जिद्विषाहस्राग्नियुक्तपौण्डरीकयाजिगणेशदीक्षिततनूजगोपीनाथ- दीक्षितविरचितायां श्रीमद्भगवत्स त्याषाढहिरण्यकेशिसू- बाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तावष्टमम- नस्य पञ्चमा पटला ॥५॥

8.6 अथाष्टमप्रश्ने षष्ठः पटलः ।

पुरोडाशानासाद्य तैः समवदाय प्रचरति

प्रतिप्रस्थात्रा हतान्पुरोडाशानध्वयुरासाद्य तैः पुरोडाशैः सहैवावदाय प्रचरति । जातायेत्यत्रान्तर्मावितो णिज्वा ज्ञेयः । तथा च प्रतिप्रस्थात्राऽऽतादनं कारयितव्य - मिति सिध्यति । तथा चाऽऽपस्तम्बः ---अत्र प्रतिप्रस्थाता सवनीयानासादयतीति । सहावदानांश एव विधिः । प्रचरतिस्त्वनुवादः । प्रचरणस्यानेककर्तृसाध्यत्वेऽपि समवदानस्याध्वर्युमात्रकर्तृकत्वेन प्रचरणसमवदानयोल्य॑ब्बोधिताने ककर्तृसामानाधिकर- ण्यासंभवादनुपपन्नं वाक्यं स्यात्तामनुपपत्तिं वारयितुमेकवचनम् । प्रतिप्रस्थात्रा हरणे कारणं नासस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादिति निषेध एव । भाग्नीधो L १ज. म, शेरते।