पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ८५४ सत्याषाढविरचितं श्रौतसूत्र- [ (अष्टमप्रभ- तेन तूष्णी दक्षिणां तूष्णीमुत्तरामिति निवर्तते । बहिर्वचनं शुष्कदर्भवाच्योगपस्तरण. निवृत्त्यर्थम् । यज्ञस्येति मन्त्रेण गार्हपत्यादुपक्रम्याऽऽहवनीयायतनपर्यन्तम् । तथा चाऽऽपस्तम्बः-यज्ञस्य संततिरसि यज्ञस्य त्या संतत्यै स्तृणामि सतत्यै त्वा यज्ञस्यति गार्हपत्यात्मकम्य संततमनुपृष्ठभं बहिः स्तृणास्याहवनीयादिति । अत्र धानादियापि पुरोडाशशब्दप्रवृत्तिर्महुवचनात् । बहिरास्तरणात्पूर्व केचित्कर्मणे यामिति पाणिप्रक्षाल- मगिच्छन्ति । देवो वः सविता मध्वाऽनक्तु इति धानालंकरण उहः । प्रकृतिवदितरे- पाम् । भामिक्षावानिनयो लंकरमम् । अलंकरणं कृत्वाऽऽमोधो विरमति । अत्र विशेषमाह बौधायन:-अधेष आग्नीध्रो जयनेन गार्हपत्यमुपविश्य पात्र्यां पञ्चधोप- स्तृणीते मध्यतः पुरोडाशमुपस्तीर्णाभिधारितमुवासयति पुरस्तादाना दक्षिणतः करम्म पश्चात्परिवापमामिलामुत्तरत इति । ,

ऐति पशुना।

सवनीयपशुना सहति आगच्छति प्रतिप्रस्थातति शेषः । । प्रत्येव प्रेषात् ।

या वां कशा मधुमतीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति ।

उपयामगृहीतोऽस्यश्विभ्यां स्वेति ग्रहणमत्रः । ऐन्दवायवादिवद्धाराग्रहत्वामा. पेऽपि महत्वमस्त्येवेति दर्शयितु प्रवचनम् । तेन महं संमार्टीति संमार्गोऽत्रापि सिद्धो भवति । भध्वर्युग्रहणं प्रतिप्रस्थातृव्यावृत्त्यर्थम् । ग्रहणप्रकारमाह-

परिप्लवया द्रोणकलशादुपस्तीर्य पूतभृत उन्नीय द्रोणकलशादभिघारयति ।

परिप्लवयेत्युत्तरत्राप्यनुवर्तते । तेन परिप्लायतोन्नयनमभिधारणं च भवति । उच- नव्यावृत्तये परिप्तवयेति वचनम् । द्रोणकलमवचनमाधवनीयव्यावृत्तये । द्रोणकलशा- दित्यनन्तरं सोमं गृहीत्वेति शेषः । उच्छन्द आधिक्यार्थकः । यद्यपि मनपाठक्रम आश्विनस्तृतीयस्तथाऽपि तस्माइहिप्पवमाने स्तुत आश्विनो गृह्यत इति श्रौतक्रमस्य. मश्रपाठक्रमापेक्षया प्रबलत्वादशैतानध्वर्युः प्रातःसवने ग्रहान्गृह्णाति यदाश्विनो दशमो गृह्यते तं तृतीयं जुहोतीति श्रुतेश्चात्राऽऽश्विनग्रहणमिति । जैमिनिरपि-क्रमको. पोऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्चेति । उतासादितग्रहाणां मध्ये दशमस्थान भाश्विनमहणं तृतीयस्थाने होम इति यदाश्विनो दशमो गृह्यते तं तृतीयं जुहोतीति- श्रुतिगतदशमतृतीयशब्दयोस्र्थो ज्ञेयः । उपस्तरणाभिचारणशहाभ्यामिदं ज्ञायत उन्नयनं मुख्यमेते अऊ । मुख्यमुन्नयनमुपर्यईपर्यन्तम् । वृष्टि कामामयाविनोः पूरण- पर्यन्तम् । उपस्तरणामिघारणे स्वल्पतोमेनेति । च. ग. ज.म. एति । ३ न. दवन'। -