पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४७ ४च पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । ध्वर्युसूत्रोक्तरीत्यैवेति ज्ञेयम् । उदश्च उदङ्मुखाः । प्रला इत्यनेन सर्पण अजुता ध्यावय॑ते । बहिष्पवमानायेति प्रयोजनप्रदर्शनाय । तेन बहिण्पवमानार्थोपवेशनपर्य- न्तमन्वारम्भ इति अवगतं भवति । बहिः स्तूयमानं यस्पवमानं तहहिष्पवमानं बहिर्बहिर्भावं गतानपि पुनातीति बहिप्पवमानमिति वा । सर्पणे विशेषमाहाऽऽपस्तम्बः- सरन्त इव रेहाणा इव न्यनि शीर्षाणि कृत्वा सर्पन्ति मृगमिव विक्षवो व्याधा मृग इव हि यज्ञ इति । तसरन्तश्छद्मना गच्छन्त इव गच्छन्ति । तथा रेहाणा हिसन्त हव तथाऽवनतशिरसश्च मृगं दिक्षको द्रष्टुमिच्छन्त इव यथा व्याधाः । व्याधा अत्रोप- मानमृत्विज उपमेयाः । तथा मृग उपमानं यज्ञ उपमेयः । मृगरूपत्वं यज्ञस्य ब्राह्मण आम्नातम्-यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वेति । कृष्णो मृगः ।

गायत्रः पन्था वसवो देवता वृकेणापरिचरेण पथा स्वस्ति वसूनशीय । वागग्रेगा अग्र एत्वृजुगा इत्ययध्वर्युः पूर्वो बर्हिर्मुष्टिमीषदिव विधून्वन्सर्पति ।

मन्त्रद्वयस्य करणत्वं वाचनिकम् । पूर्वः पूर्वस्मिन्निति पूर्वः सुप[मुलुगित्यनेने सप्तम्याः मुः । प्रदेश इति योग्यतया विशेष्यमत्र द्रष्टव्यम् । मुष्टिग्रहणादाणा' बन्धनम् । ईषदिवेत्यस्येषत्सदृशमित्यर्थः । तेन धूनने मध्यमावस्था बोधिता भवति । । विधुन्वनितिशतृप्रत्ययेन धूननसर्पणयोः समकालता । मनोऽप्यध्वयोरेव । तत्राध्वर्यु- ग्रहणम् “ अध्वर्युर्वी अस्विनी प्रथमो युज्यते तेन स्तोमो योक्तव्य इत्याहुगिनेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान्पशुप प्रनां मयि च यजमाने पेत्याह वाचमेव तद्यज्ञमुखे युनक्ति वास्तु वा एतद्यज्ञस्य क्रियते यद्ग्रहानगृहीत्वा बहिष्पक- मानर सर्पन्ति " इत्यर्थवादस्फोरणाय । पूर्व इत्यनेनान्वारम्भाविच्छेदानुरोधेन त्रिचतु.. पदानि पुरतः पूर्वमादौ गच्छति । एतत्सर्पणमेकवचनादध्वर्योरेव । मन्त्रोऽपि सर्पणा- धृत्वात्तस्यैव । ततः सर्व उदञ्चः प्रहा गच्छन्ति । यजमाने चेति मन्त्रान्तः । दक्षिणेन चात्वालमुपविश्यान्तर्वेदि चावा- लमवेक्षमाणा बहिष्पवमानेन स्तुवते ।

दक्षिणेन चात्वालमुपविश्यान्तर्वेदि चात्वालमवेक्षमाणा वहिष्पवमानेन स्तुवते ।

तथा चायमर्थों भवति-आदौ पात्वालसामीप्यानुरोधेनैवोपविश्य पश्चादतवेदि सर्वे भवेयुरित्यर्थः । उत्तरवेद्यसस्योत्तरतः प्रक्रमत्रिपदात्मको यदि तदैतत्सप्रयोजनं द्रष्ट. न्यम् । न च दक्षिणेन चात्वालमन्तद्युपविश्य चास्वालेमवेक्षमाणा बहिष्णवमानेन स्तुवत इत्येवमेवान्वयः कुतो न वी क्रियत इति वाच्यम् | त्वाप्रत्यस्योत्तरेण वाक्ये. नानन्वयापत्तेः । तथा हि उपवेशनं सर्वविषयकं स्तवनं तूद्गातृमात्रविषयकं तथा चोप. .