पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& % सापरल: गोपीनाथमष्टकृतज्योनाग्याख्यासमेतम् । ८२७

त्रिरभिषुतꣳ राजानमाधवनीये सꣳसिञ्चन्ति।

निष्पीड्य सिञ्चनमीत्यर्थः । अत्राऽपस्तस्बेन विशेष उक्तः- अभियुतमध्वयुरन लिना मसिञ्चति तमुन्नेताऽन्तरेणेषे अपोद्धृत्योत्तरत. आधवनीयेऽवनयत्येष एवापार सोमस्य च पस्था इति । अस्याः-एवं विभिघुतमजीलनोदचने. संसिञ्चति गृह्णाति तं गृहीतमुन्नेताऽन्तरेषे या पन्यास्तेनोद्धृत्योदचनमूत्तरत आधवनीयस्य गत्वा तस्मिन्न- वनयति । उपसर्जनार्थानां पसतीवरीणामभिषुतस्य सोमस्य चेष एव पन्या इति । इदमप्यविरोधात्स्वीकर्तव्यमेव । तत्रोदचने संसिञ्चनमात्रमध्वर्युकर्तृकम् । सूत्रविरुद्ध- स्वादाधवनीये वनयनमापस्तम्बानामिव केवलाध्वर्युककं न भवति किं तु सर्वाध्वर्यु- कर्तृक संसिञ्चन्तीति बहुवचनात् । अत एवं केवलो नेतकर्तृकताऽपि वारिता भवति ।

एवं विहितो द्वितीयस्तृतीयश्च पर्यायः ।

संसिञ्चनान्तेन विधिना विहितो द्वितीयस्तृतीयश्च पर्यायः । तथा च विपर्यायों महाभिषवो भवतीति । आपस्तम्बोऽपि अमर्थ स्पष्टमाह - विपर्याय इति ।

उत्तमेऽभिषवे सुसंभृतꣳ राजानं कृत्वा पवित्रेण पवित्रेण प्रपीड्योपरे ग्राव्णः संमुखान्कृत्वा तेभ्य ऋजीषं व्यपोहति।

सुपः संभूतं निःशेषं संभृतं. राजानमाधवनाये कृत्वा पवित्रेण दशापवित्रण अजोष... माधवनीय एव प्रपीमोपरे ग्राणः पूर्ववत्संमुखान्कृत्वा तेभ्यो नावभ्यो मावार्थ प्रपी. डितमनीषं व्यपोहति विभनतीत्यर्थः । उत्तमेऽभिषवे निग्रामोपायने. जाते होतृचमसी- यानां निग्रामोपायना रंशुभिः सह होतचमसस्थानां निग्राम्याणां समाप्तिः ।

ऋजीषमुखान्करोति ।

विभक्तमजीप मुखेषु येषां त ऋनीषमुखा एतादृशान्प्रावणः करोति । घासमेभ्यः प्रयच्छतीति विज्ञायत इत्यापस्तम्बः । वासो मक्षः ।

प्राञ्चमुद्गातारो द्रोणकलशं ग्रावस्वध्यूहन्ति।

प्राश्चमिति द्रोणकलशविशेषणं छन्दोगोक्तस्योदश्चं वेति.पक्षान्तरस्य व्यावृत्त्यर्थम् । उदातार उद्गातृप्रस्तोतृप्रतिहार एव न सुब्रह्मण्योऽपि । छन्दोगसूत्रे , बहुवचनेन. तेषामेव ग्रहणात् । पावसु संमुखीकृतेषु द्रोणकलशं प्राश्चमध्यूहन्ति । उपरि.प्रतिष्ठ-. पन्ति ऋतपात्रमरीत्यादिस्वसूत्रोक्तेन विधिना ।..

अधोक्षमुपकर्षन्ति ।। ८ ।।

अक्षस्याध इत्यघोसम् । अव्यवीभाव समासोऽयम् । अक्षस्याधोभागेन प्रावतु प्रति- ष्ठापयितुमुपकर्षन्ति । उद्गातार इति पूर्वस्वादनुवर्तते ।

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गाप्राणि पर्येषि विश्वतः । अतप्तत्तनूर्न तदामो