पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- तृपट] गोपीनाथमकृतज्योखाव्याख्यासमेतम् । २५ शुहोम इति ज्ञापयितुमेवैतत्पूर्व द्वेष्यस्य नाम गृहातीतिसूत्रप्रणयनम् । एतदन्त नैमित्तिकम् । अथ प्रकृतमुच्यते-

महाभिषवाय पर्युपविशन्ते पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता ।

सपनार्थत्वात्सर्याध्वर्युकर्तृकत्त्वाच महत्त्वममिषवस्य । चतुर्थी तादध्ये महाभिषवार्ष- मित्यर्थः । परि परस्पराभिमुखमित्ययों न तु समन्तमिति । तस्य पुरस्तादित्यादिवश्य- माणेनैव सिद्धः । विदिग्न्यावृत्त्यर्थं पुरस्तादित्यादिकम् । महाभिषवाय पर्युपविशन्ने सर्वेऽध्वर्ययो दिक्षु क्रमेणेत्येतावतैव सेत्स्यति सति गुरुसूत्रकरणं क्रमेणोपवेशनार्थ पुरस्तात्प्रथममध्वर्युरुपविशति ततो दक्षिणतः प्रतिप्रस्थाता ततः पश्चान्नेष्टा तत उत्तरत उतेति । पुरस्तादित्यादयः प्रदेशा राजानमपेक्ष्य ज्ञेया अभिषवानुकूलत्वाय ।

राजानमपादत्ते यावन्तं प्रातःसवनायाऽऽप्तं मन्यते प्रत्युपनह्येतरं निदधाति तमुपरे न्युप्योशिक्त्वं देव सोमेति येऽऽदाभ्या अꣳशवस्तेषामेकैकमनुसवनमपिसृजति यत्ते सोमादाभ्यं नाम जागृवीति चोपाꣳशुपावनानां द्वौ द्वौ ।

समुपरे न्युप्येत्यन्तं कृतव्याख्यानम् । पूर्वत्रैकमहायाऽऽसमित्युक्तं स्थितं सत्राय विशेषोऽत्र प्रातःसपनायासं मन्यत इति । प्रतिग्रहमभिषवशङ्कां दूरीकर्तुं वा यावन्तं प्रातःसबनायाऽऽतं मन्यत इति वचनम् । थे, आदाम्या इति पदच्छेदः । तद्धितामाव: पूर्वसवर्णदीर्घो वाऽऽर्थः । भादाभ्या भवाम्यसंबन्धिनो येऽशवस्तेषां मध्य एकैकमे- कमेकर्मशं सवनं सवनमनु अनुसवनं प्रवृहणकमेणापिसनति प्रातःसवनार्थमपात्तेन राज्ञा संस्पर्शयति । अवापिसर्जनं राज्ञि मेलनं न मवति कि तु संस्पर्शानमेव । भन्यथा तानुपरे न्युप्येति उत्तरत्रोक्तस्योपरे निवानस्यासंगतत्वापत्तेः । अपेहीत्यन्ता- स्त्रयो मन्त्राः । तेषां मध्ये प्रथमेन मन्त्रेण प्रथममशुं प्रातःसवनेऽपिसृजति । द्वितीयेन द्वितीयं द्वितीये । तृतीयेन तृतीयं तृतीय इति केचित् । तन्न । वसवस्त्वा प्रवृहन्त्वि- त्यतैरुपनदस्य राज्ञ इतिवदतरितिवचनामावनकमत्रत्वमेव सूत्रकाराभिमतमित्यवग- मात् । यदि सूत्रकारस्य मन्त्रनानात्वमभिमतं भवेत्तदैतरिति पूर्ववढ्यादेव । वाध्ठेन- उशिक्वं देव सोम गायत्रेण चन्दसाऽनेः प्रियं पापो अपीहि वशी स्वं देव सोम श्रेष्टुमेन छन्दसेन्द्रस्य प्रियं पापो अपीयस्मत्सखा त्वं देव सोम जागतेन छन्दप्सा विश्वेषां देवानां प्रियं पापों अपीहोत्यतनकै कमशुमनुपवनमपिस्नतीत्येकमत्रत्वं सष्टमेवोक्तम् । पत्ते सोमादाम्यमित्ययमपि आदाभ्यांश्वपिसमन एव । करेण समुः