पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २२. • सत्यापादविरचितं श्रीतसूर्वति [अपप्रमे- गच्छति न तु होतुरुत्तरप्रदेशे गमनवेलायां पादौ-- निधात पावित्यविशेषव्योतनार्थम् ।

उत्तरं परिधिसंधिमन्ववहृत्य स्वाहा त्वा सुभवः सूर्यायेति दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं जुहोति ।।

तमेव संधिमन्ववत्येत्येतावतैव सिद्धे पुनरुत्तर परिधिसधिमितिवचनमन्ववस्थानन्त्रि- बहरणयोः समकालस्वं ज्ञापयति । अवहत्यावतः सन्यहं प्रवेश्येत्यर्थः । दक्षिणाप्राश्च. माग्नेयोदिक्पर्यन्तमित्यर्थः । अर्थादन्नौं वायवी दिशमारम्य धाराकरणम् । मिति वक्रताव्यावृत्त्यर्थम् । अग्न्यन्तप्रदेशे वायी दिशमारम्यान्यन्तप्रदेश एवाऽऽपी) दिपर्यन्तं दीर्घता । अग्नेमध्य एव वायही दिशमारम्याग्नेर्मध्य एवाऽऽोथीदिक्पर्यन्तं होमे हस्वता । एतस्या निरासा दीवचनम् ।. संततवचन मध्ये विच्छेदव्यावृ. त्यर्थम् । स्वाहा. त्या- सुभवः, सूर्यायति मात्रादौ स्वाहाकारसत्वेऽपि अन्तेऽपि भवत्येव स्वाहाकारः । न चस्मिन्मत्रे पुरस्तात्स्वाहाकारस्य: पठितवलपुरवात्स्याहा. कृतिरेव सूर्यो नोपरिष्टात्स्वाहाकृतिः, न टेकस्यैव : पुरस्तात्स्वाहाकृतित्वमुपरिष्टात्स्वा- हाकृतित्वं भवति, अतः कथमत्रान्ते स्वाहाकार , इति वाच्यम् । अनेकपदैमध्ये व्यवधानात् । यत्र देवतापदस्वाहापदयोरव्यवधान तत्परमेवेदं श्रुत्युक्तं पुरस्तात्स्वाहा। कारत्वमुपरिष्टास्वाहाकारत्वं व्यवस्थया भविष्यति न सर्वत्रेति । यत्रानेकपदव्यबंधान तत्र पूर्वस्य स्वाहाकारस्य प्रदानार्थकत्वं नेत्येवमेव गम्यते । अन्यथा स्वाहाऽऽधि- माधीताय. स्वाहेत्यन्तिमस्वाहाकारस्य वैवापत्तेः । न - च स्वाहाऽऽधिमाधीवाय स्वाहेत्यादिमन्नत्रयस्य प्रत्येकं मन्त्रद्वित्वपरत्वं शङ्कयम् । एकविशतिं वैश्वदेवानि जुहोतीत्येकविंशतिसंख्याविरोधापुत्तेः । अतो : मन्त्रास्त्रय एव । इदमेव लिङ्गमादिमः स्वाहाकारो देवतापदाव्यवहितपूर्व एव ग्राह्यो न तु मन्त्रांदिळवहित इति । विश, इति । पुरस्तात्प्रतिदिश इति दक्षिणत आदिश इति पश्चाद्विदिश इत्युत्तरत उद्दिश इति मध्ये स्वाहेति सर्वत्रानुष नतीति वसाहोमप्रकरणस्थे सूत्रे सर्वत्रेतिपदेन घृतं घृतपावान इति मध्यस्वाहाकारवति मन्त्रेऽपि तदन्ते स्वाहाकारप्रापणार्थ कृतेनाप्येताहशार्थः स्पष्टीकृतो भवति । मध्यमे स्वाहाकारे बहिरनुप्रहरीति लिङ्गमध्यत्र भवति ।

देवेभ्यस्त्वा मरीचिपेम्य इति मध्यमे परिधावभ्यन्तरं लेपं निमार्ष्टि ।

सष्टम् ।

यदि कामयेत वर्षुकः पर्जन्यः स्यादिति ब्राह्मणव्याख्यातम् ।

यदि कामयेत वर्धकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्यावृष्टिमेव नियच्छत्ति यदि कामयेतावर्षक: स्यादित्युत्तानेन निमृज्यावृष्टिमेवीझच्छतीति ब्राह्मणे व्याख्याता 2