पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०२ सत्याषाढविरचितं श्रौतसूत्र- [८ अष्टमप्रभे-

यत्रैवं तत्र सर्वसोमाहुतीः ।

यत्र यासु सोमाइतिषु एवं प्राङ्मुखस्तिष्ठन्नित्यादिः प्रकारस्तत्र सर्वस्य तत्तद्हपा- प्रस्थस्य सोमस्याऽऽहुनयः सर्व सोमाहुतयः सर्वतोमस्य होमः कर्तव्यो न तु शेषः स्थापनीय इति । यत्रैवं तत्रेति वचनादेताहशे प्रकार एवायं सर्वस्य सोमस्य होमवि- घिरन्यत्र यथावचन मिति । यत्र यस्मिन्देशे दक्षिणार्धपूर्वार्धरूप उत्तरार्धपूर्वार्धरूसे वैवं होमस्तत्र तस्मिन्नेव देशे सर्वाः सोमाहुतयो होतव्या इति वाऽर्थः । सर्वसोमाहु- सीरित्येतदनन्तरं पूर्वसूत्राज्जुहोतीत्यनुवर्तनीयम् । नचाग्रिमेण हुत्वेतिशब्देनवान्वयोऽ. स्त्विति वाच्यम् । हुत्वेत्यस्यानन्वयापत्तेः। नचान्वयार्थमुत्तरसूत्रणव संबन्धेऽपि तद्दोष- ताइवस्थ्यमिति वाच्यम् । विशेषविधानानुवादकत्वेनोपपत्तिसंभवेन तद्दोषताइवस्थ्या. भावात् । अनुवादप्रयोजनं तु होम एव मुख्यः शेषकरणं गौणं तस्य भक्षणार्थत्वात् ।। तथा च शेषकरणं स्वल्पस्य सोमस्य भूयसो होम इति ।

हुत्वा शेषं वा करोति ।

सष्टम् ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण होतारं पुरस्तात्प्रत्यङ्ङासीनो नृचक्षसं त्वेत्यवेक्ष्य मन्द्राभिभूतिरिति भक्षयति ।

अनुक्ते कीर यजुदेनाध्वर्युरिति परिभाषयाऽध्वर्युरेव कर्तेति । सदास भक्षय- न्तीति श्रुतेर्भक्षणार्थ सदसि प्रवेशः । अग्रेण होतारमिति विधानाद्धोत्रा स्वधिष्ण्यस्य पश्चादवोः सोमभक्षणपर्यन्तमुपवेशनं कर्तव्यम् । अथवा पूर्वेण द्वारेण सदः प्रविश्याग्रेग होतारमित्यत्र हौत्रशास्त्राविरोधायाण होतारं पूर्वेण द्वारेण सदः प्रवि- श्येत्येवमेवान्वयोऽङ्गीकर्तव्यः । तथा चायमों भवति अग्रेण होतारं सदो गत्वा पूर्वेण द्वारेण सदः प्रविश्येति । एवं चाण होतारमित्यस्याऽऽसौन इत्यत्रान्वय- स्यैवाभावान होतृशास्त्रेण विरोधः । नचैव पुरस्तात्पदस्य वैयध्य शङ्कयम् । पुरस्तादित्यस्य सदसः पुरस्ताद्भागपरत्वेन चैयाभावात् । इदमेव पुरस्तात्पदं ज्ञापयति सदसो विष्णियेभ्यो होतुर्वा पश्चान्न गच्छेदिति । अर्थाद्धातृधिष्णि. यस्यैवावधित्वं सर्वभक्षेषु न तु तत्तद्धिणियस्य । आग्नीधे सदसि भक्षयन्तीति विरो- धापत्त्या तदसंमवात् । अतो होतुर्मुख्यत्वात्प्रथमोपस्थितत्वाच्च तद्धिणियस्यैवावधित्वं युक्तमिति भावः । ननु अग्रेण होतारमितिवचनं व्यर्थ हविर्धाने पूर्वेण प्रविष्टस्य हविर्धानस्यापरेण द्वारेण प्रवेशं व्यावर्तयितुमिति चेत्तस्य नासस्थिते सोमेऽध्वर्युः पूर्व ण द्वारेण हविधीने प्रविश्यापरेण निष्क्रामेदित्यनेन निषधेनैव सिद्धरिति चेन्न । होतु १ क. स. 'त्यादि।