पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०० सत्याषाढविरचितं श्रौतसूत्र- [८ भष्टमप्रभे- नित्य इत्यत्र भावप्रधानो निर्देशः । नित्य इत्यनन्तरमपिशब्दोऽध्याहार्यः । तथा चायमों भवति-दधिग्रहस्य नित्यत्वेऽपि दधिग्रहं गृहीयात्पशुकामस्येति फलश्रव. गारकाम्यत्वेऽपि प्रवर्तत इति । तेन दधिग्रहस्योभयरूपत्वे सिद्ध आज्यग्रहसोमग्रहयोः काम्यत्वमेवेति अदिवगपो | पकारोऽपभ्रष्टो द्रष्टव्यः । आज्यग्रहसोमग्रहयोः काम्यत्वात्प्रकृतादेव निवेशो न विकृतौ काम्यस्य दधिग्रहस्यापि पति कामे प्रकृतावेव निवेशः । नित्यस्य दधिग्रहस्य तु उभयत्रापि निवेश इति द्रष्टव्यम् । भाज्यग्रह भाज्यमपूर्वमौष्टिकमेव वा । अपूर्वपक्षे पात्रेणेव ग्रहणम् । ऐष्टिकपक्षे सुवेण यावधिग्रह. पात्रपूर्णमाज्यग्रहणात्पूर्व ग्रहपात्रसादनान्ते चोदकस्पर्शः । अन्न कमिधातुश्रवणात्सत्या कामनायां तेनाकाम भाग्यग्रहं ग्रहीष्ये ब्रह्मवर्चसकामः सोमनहं ग्रहीष्ये पशुकामो दधिग्रहं ग्रहोप्य इति यथाकामं यजमानेन संकल्पः कर्तयः । समस्ते क्रताव श्रूय. माणं यजमानः कामयते तथा नित्येषु यज्ञाझेषु यानि तु कामयतिः श्रावयतीति सूत्रात् ।

सोमग्रहे ग्रहीष्यन्राजानमपादत्ते यावन्तमेकग्रहायाऽऽप्तं मन्यते ।

अपेत्युपसर्गाद्राशीभूनाद्राज्ञोऽपादानीभूतादादानं कार्य न तु कृत्स्नस्य राज्ञ आदा. नमिति । अथ वाऽपेत्युपसर्गो दायमाचष्टे यथा हदेन मुष्टिनाऽऽदानं भवति तथा प्रहीतव्यः सोम इति । तत्र ग्रहीतव्यस्य राज्ञः प्रमाणपाह-यावन्तमेकमहायाऽऽर्स मन्यत इत्यनेन । एकग्रहायाऽऽतं राजानमपादत्त इत्येतावत्येव लाघवाद्वक्तव्ये गुरु- सूत्रकरणमपातेन पर्याप्तिन भवति चेत्तदाऽन्योऽपि पर्याप्तो प्राझो न तु प्रथमापादान एवं पर्याप्तो माझ इति नियम इति ज्ञापनार्थम् । गृह्यत इति अहो रसः । एकशमा केवलार्थकः केवलं ग्रहाय रसायाऽऽप्तं पर्याप्तं मन्यत एतावता सोमेन ,रसो कब्धो भवतीति निश्चीयते । पात्रस्यातीय पूरणं भवतु वा मा वेति तावत्परिरमितः सोमोऽपादा. तव्य इत्यर्थः । अर्थादेपैकग्रहायाऽऽतस्य सोमस्यापादाने सिद्ध एकग्रहायाऽऽप्त मन्यत इति वचनं वक्ष्यमाणं सर्वान्पूर्णान्वृष्टि कामस्य महान्गृह्णीयादिति काम्यं ग्रहाणां पूर्णत्व नात्र भवति कि तु कामाभावे यथोपर्यग्रहणं धाराग्रहाणां तद्वदनापीति ।

प्रत्युपनह्येतरं निदधाति ।

इतरमेकग्रहार्थ गृहोतादवशिष्टं प्रत्युषना पुनर्बदा स्वस्थाने निदधातीत्यर्थः । प्रत्युपनोति वचनाद्वन्ध विस्त्रस्यैवाप दानमिति । हस्त गृहोतसोमः सन्नेव प्रत्युपनहनं कृला निदधाति । यद्येतादृशः सन्न शक्नु यात्तदाऽन्यस्मै प्रदाय प्रत्युपना निदधाति ।

तमुपरे नुप्य वसतीवरीभिरुपसृज्यावीवृधं व इत्यभिमन्त्र्य ।

तमपात्तमुपर उपर प्रथिष्ठं मध्ये पञ्चममितिलक्षणलशिते न्युप्प निक्षिप्य वसतीव. रोभिरूपमृन्य मिश्रयित्वा मिश्रितमपीवृध व इति मन्त्रेगाभिमन्येत्यर्थः । सवनाय सोम. मिति मन्त्रानतः । .