पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १७० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ७९५

न्तामित्युपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर्व्यानयति।

कल्पन्तामित्यन्तेन मन्त्रेण चात्वालस्योपरि होतृचमसं मैत्रावरुणचमसं च सम्य- क्स्पर्शयित्वा वसतीवरीसंज्ञका अपो व्यानयति होतृचमसमैत्रावरुणचमप्तयोः परस्पर ताम्यामेवाऽऽनयतीत्यर्थः । विशब्दात्परस्परमानयनम् | संपर्येत्ययं त्यसमानका- लिकत्वार्य मुखं व्यादाय स्वपितीतिवत् । तेन यावत्पर्यन्तं परस्परमानयनं तावत्पर्यन्तं संस्पर्श इति सिध्यति । अयमर्थः स्पष्टः सूत्रान्तरे-उपरिचात्वाले संस्पृष्टयो)तृचमस. मैत्रावरुणनमसयोर्वसतीवरीरध्वर्युनियतीति । संस्पृष्टयोरिति सति सप्तमी । तेन समानकालिकता नम्यते । णिच्प्रयोगादन्यकर्तृकता संस्पर्शने । असंभवपरिहाराय युक्तैवान्यककिता । संशब्दाइक्षिणहस्तगृहीतस्य होतृचमसस्य प्राग्दण्डस्योत्तराङ्गं वामहस्तगृहीतस्य मैनावरुणचमतस्य प्राग्दण्डस्य दक्षिणाझं यथा संश्लिष्टं भवति तथा स्पर्शः कर्तव्य इति बोध्यते । सामान्यप्रतिज्ञेयम् । कथमित्याकाङ्क्षायां विशेषमाह--

होतृचमसे वसतीवरीणां निषिच्य मैत्रावरुण चमस आनयति मैत्रावरुणचमसाद्धोतृचमसे ।

वसतीवरीणामित्यवयवषष्ठी । वसतीवरीणामवयवं होतृचमसपर्याप्तं होतृचमसे निषिच्य नावयित्वा तस्मान्मत्रावरुणचनस आनयति अर्ध तस्मान्मत्रावरुणचमसादर्ष होतृचमसे । आनयतीत्ययं ब्यानयनपदार्थः । पञ्चमीश्रवणात्पात्रान्तरेण व्यानयनं न , तु ताभ्यामेव व्यानयनम् । 4. संदधात्वितिलि काट्यानयने मन्त्रः । होतृचमतान्त्राव. रुणचमस भानयने मैत्रावरुणचमसाद्धोतृचमस आनयने च मन्त्रः । निषेचने न मन्त्रः । तस्य व्यानयनरूपत्वाभावात् । अत एव धात्वन्तरं प्रयुक्तम् । निशब्दात्पूरणं सूचित भवति । स्त्रावणशब्दात्स्वल्पं स्वरूप विच्छिद्य विच्छिद्याऽऽनयनमस्कन्दनाय । अत्रा55. पस्तम्बो विशेषमाह-समन्या यन्तीत्यभिज्ञाय होतृचमसान्मत्रावरुणचमस आनयति मैत्रावरुणचमताद्धोतृचमस एतद्वा विपरीतमिति ।

होतृचमसं मैत्रावरुणचमसं च प्रचरण्या समनक्ति सं वोऽनक्तु वरुण इति मन्त्रादिं संनमति ।

सं वो दधात्वित्येतस्य स्थाने से वोऽनक्वितिमन्त्रादि प्रयोजयति । दधास्वितिप- दस्य स्थानेऽनक्तु इति पदं प्रयुनत्तीति तात्पर्थिः । होतृचमप्समैत्रावरुण वमसश- , ब्दाम्यां तद्गता आपो लक्ष्यन्ते । सं वोऽनक्वितिमन्त्रलिङ्गात् । तथा चापामेवाञ्जनं न. श. म. द. नि:पिच्य।