पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायः स्थास्यो .७७२ सत्यापाढविरचितं श्रौतसूत्र- [८अष्टमप्रश्न- भक्षणार्यमवनीयते सोमस्तदनयोरुभयतो भवति आर्जवेनेत्यर्थः । अत एव वचनात्पात्रा- न्तराण्यप्येकनोमुखानि भवन्तीति गम्यते । दक्षिणमध्वोरुत्तरं प्रतिप्रस्थातुरित्यनेन प्रासंस्थता व्यावर्त्यते । गुरुसूत्रकरणप्रयोननं पूर्ववत् । अत्रापि प्रवागित्यापस्तम्वः । कस्त्वेति मन्त्रोऽत्र । द्रव्यपृथक्त्वादावर्तते मन्त्रः ।

दक्षिणस्याꣳ श्रोण्यामाग्रयणस्थालीम् ।

खरस्य दक्षिणस्यां श्रोण्यामाग्रयणस्थाली, विश्व देवा देवतोष्णिहा छन्द इति । मृन्मभ्यः प्रयोज्याः।

उत्तरस्यामुक्थ्यस्थालीमुक्थ्यपात्रं चाश्वशफबुध्नम् ।

खरस्योत्तरस्यां श्रोण्यामुक्थ्यस्थालोमिन्द्रो देवता ककुच्छन्द इति प्रयुज्यतेनैव तदुत्तरत उक्थ्यपात्रं प्रयुनक्ति ।

ते अन्तरेणोदञ्चि त्रीण्यतिग्राह्यपात्राणि ।

ते स्थाल्यावाप्रयणोक्थ्यसंबन्धिन्यौ । नच तच्छब्देन परामर्शः पात्रत्वतानात्यमा- दायोक्थ्यस्थास्युक्थ्यपारयोरेव तथा च तयोरेव मध्येऽतिग्राह्यपात्राणां प्रयोग इति वाच्यम् । विजातीयपानद्वयपरामर्शापेक्षया सजातीयपात्रद्वयपरामर्शस्य युक्तत्वात् । सर्वनाम्नो बुद्धिस्थपरामर्शित्वात् । स्यालीस्वसानात्यमुक्थ्यपात्रे नास्ति । आकारतः करणतश्च स्थालीतो विजातीयत्वात् । तथा च स्थाल्योरेव मध्येऽतिमाह्यपात्राणि प्रयो- कव्यानि नतूक्थ्यस्थाल्युक्थ्यपात्रयोर्भध्य इति सिद्धं भवति । स्पष्ट माहाऽऽपस्तम्बः-- स्थाल्यावन्तरेण त्रोण्युदयतिमाह्यपात्राणीति । उदश्वीति प्रासंस्थताब्यावृत्त्यर्थम् । उत्तरत्र विनियोगादेव त्रित्वे सेत्स्यति सत्यत्र त्रोणीति वचनं पात्राणां परस्परसंलग्न. त्वेन प्रयोग इति ज्ञापयितुं, वय एव यदाऽतिग्राह्यास्तदेवोदक्संस्थतया सादनमिति तेन वाजपेये सप्तदशातिग्राह्येषु नास्त्युदक्संस्थतानियम इतिज्ञापनार्थं वा । एतेषां पात्राणामतिग्राह्यतंबन्धिनां स्वरूपकर्म करणत्वेन विपर्यासासंभवाचितप्रयोजनं नातीव । करत्वेति मन्त्रावृत्त्या प्रयोगः ।

दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादित्यस्थालीमादित्यपात्रं चाश्वशफबुध्नम् ।

अग्रेणोपस्तम्भनमित्यनेनोपस्तम्भनानुरोधेनातिग्राह्यपात्राणां पश्चात्खर एवं प्रयोग इति बोध्यते । उपोतेऽन्ये ग्रहाः साद्यन्त इति श्रुतेः । एतेनेदमपि ज्ञायते-उपस्त- म्भनेन संलग्न एक खरः कर्तव्य इति । आदित्यस्थाल्युत्तरत आदित्यपात्रस्य प्रयोगः । करत्वेति मन्त्र आवर्तनीयः, द्रव्यपृथक्त्वात् ।

उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् ।

अग्रेगोपस्तम्भनमित्यनेनोपस्तम्भन संलग्नतयैव ध्रुवस्थाली प्रयोज्येति मोध्यते । पृथिवी देवता विराट्छन्न इति मन्त्रः । औपरवपुरीषकृतखररूपं स्थलमुपोप्तं तद्भिन्न