पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५४ सत्याषाढविरचितं श्रौतसूत्रं- [७ सप्तमप्रश्ने- यस्य स्वयं वनच्छत्राचन्यतमेन पदार्थेनोपायान्तराभावे शरीरस्य वा छायां कृत्वैताह- श्याश्छायाया आतपस्य च संधौ गृह्णातीत्यर्थः । संधावातपस्य च्छायाया इति सूत्रा. संघावातपस्येत्यनुवर्तते । सर्व चैतदापस्तम्बोऽप्याह-यद्यभ्रच्छायां न विन्देदात्मनो वृक्षस्य कूलस्य वा छायायामिति । ग्रहणप्रकारमाह-

हविष्मतीरिमा आप इति प्रतीपं तिष्ठन्कुम्भं कुम्भीं वाऽभिपूरयति ।

अपां प्रतीपम् । अव्ययीभावसमासोऽयम् । अव्ययीमावत्वानपुंसकत्वम् । अबमि- मुखमित्यर्थः । अत्रावभिमुखत्वं नाम प्रवाहाभिमुखत्वम् । प्रतीपमिति तिष्ठन्नित्यत्रैवा. । न्वेति । कुम्भस्य कुम्भ्या वाऽबभिमुखताऽभिशब्दादेव लभ्यते । अबभिमुखस्तिष्ठन्कुम्भ कुम्मी चाऽवमिमुखतया धृत्वा पूरयतीत्यर्थः । प्रतीपमित्यत्र छन्तरुपसर्गेभ्योऽप इंदि. त्यनेन कृतसमासान्तापशब्दाकारस्य दोर्षकारादेशः । अस्तनः कुम्भः सस्तना कुम्भी बौधायनसूत्रात् । तत्र स्तनद्वयं चतुष्टयं वा कुम्भ्याः । कुम्मे कुम्भ्यां वाऽपि दृढत्वं योग्यतयैव सिध्यति । स्पष्टमेवेदमाह बौधायन:-अथ यो वीडितः कुम्भस्तं याचतीति । वीडितशब्दार्थः कर्मान्ते-दृढ इत्येवेदमुक्कं भवतीति ।

यद्यगृहीताः सूर्योऽभिनिम्रोचेद्यो ब्राह्मणो बहुयाजी तस्य गृहात्कुम्भ्यानां गृह्णीयात् ।

यदीत्यनेन नैमित्तिकत्वम् । अगृहीता वसतीवर्यः सत्यश्चेत्सूर्योऽमिनिम्रोचति अस्त- मेति तदा यो ब्राह्मणो बहुयाजी तस्य गृहाद्गृह एव कुम्मे भवाः कुम्भ्यास्तासामपां गृह्णीयात् । भवनमत्र सत्ता । बहुयाजिशब्देन सोमयाज्युच्यते । स हि गृहीतवसती. वरीक इति लिङ्गात् । सोमयाजी बहुयाजी भवतीति विज्ञायत इत्यापस्तम्बसूत्रात् , यो ब्राह्मणो बहुयाजीति सोमयाजिनं ब्रूत इति भारद्वाजसूत्राच्च । नतु बहुयाजनकर्ता । तस्य निषिद्धत्वात् । गृहादिति पञ्चमी सप्तम्यर्थे । गृह इत्यनेन तत आहृत्य वह. न्तीनां समीपे गत्वा तत्र ग्रहणमित्येतादृशोऽर्थो व्यावय॑ते । कुम्म्यानामिति पञ्चम्य षष्ठी।

यदि तं न विन्देयुरग्निꣳ हिरण्यं चाऽऽदाय परेयाद्यत्राऽऽपः स्युस्तज्ज्योतिरुपरिष्टाद्धारयन्हिरण्यमन्तर्धाय वरे दत्ते गृह्णाति ।

तं बहुयाजिनम् । यदीत्यनेनाग्निं हिरण्यं चाऽऽदायेत्यारम्य करे दत्ते गृह्णातीत्य- न्तस्य विधेनैमित्तिकत्वं प्रदर्श्यते। न विन्देयुर्न लभेयुः । यथा वसतीवरीग्रहणकाले यदि सूर्योऽमिनिम्रोचति तदा बहुयानिनो गृह एव कुम्भ्यानां ग्रहणं कर्तव्यमित्यनेन वह- 1