पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(म0पटउः ] गोपीनाथमहकृतज्योत्पाष्याख्यासमेतम् । ७४३ यकत्वात् । औत्तरवेदिक प्रति गमनमाथिकं तद्विना होमासंभवात् । अत्र सज्यि-, म उत्तरत्र विनियोगाभावात् । आपस्तम्बः स्पष्टमेवाऽऽह-उरु विष्णो विक्रम- वति सर्वमाज्यशेष जुहोतीति । तिरेति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः ।

यथेतममात्याः प्रतिगच्छन्ति ।

इतमनतिक्रम्य यथेतम् । अव्ययीभावासमासोऽयम् । येन मार्गेण गमनं पूर्व कृतं नैव मार्गेगामात्याः प्रतिगच्छेयरित्यर्थः । आज्यबाहिरिमानामादातारस्तु तत्तदुपयो- गपर्यन्तमुत्तर दिसमीप एवावतिष्ठन्ते । अग्नीषोमीयपशोनेताऽप्योपाकरणकालादवति- त एव । ऐन्द्राग्नाश्चिनपशुसत्त्वे तयोर्नेतराषप्यु(प्यो)पाकरणकालादवतिलेते । सुर. सितानि सादयित्वा वैते सर्वे गच्छेयुः ।

सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविर्धाने ब्रह्मा राजानं प्रपादयति ।

सौम्यति पूर्ववद्याख्येयम् । प्रपादयति प्रवेशयति । अत्र वचनं प्रयोगक्रमक्षा- नाथ यदा राज्ञः प्रपादनं तदैव पक्ष्यमाणोऽध्वयोर्हविर्धाने प्रवेशो न तत्पूर्वमिति । बालस्वसूत्रे राजानं प्रत्यादाय सोमो जिगाति गातुविदिति सौम्यर्चाऽपरेण द्वारेण हविधीने प्रविश्यावर्य राजान, प्रदाय यषेत प्रत्येत्यापरणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशतीति ब्रह्मकर्तृकमेवाध्वर्यवे राक्षः प्रदानं विधास्यमानम् । अनेन तु प्रयोजक- कर्तृवं विधीयते । तथा च ब्रह्मा मन्नं खयमुक्त्वा येन केनापि परिकर्मिणा पूर्वेग द्वारेण हविर्धाने राज्ञः प्रवेशनमा सेनवार्यवे राज्ञः प्रदानं च कारयेदिति । एवं ष द्वयोविरोधाद्विकल्पः । अत्र मन्त्रवचन मन्त्रावचनात्पक्षे तूष्णीत्वमपि स्यात्तब्यान वर्तयितुम् । अब्रोति पदच्छेदो वाऽत्रापि । अर्थस्तु स्पष्टः । अस्मिन्व्याख्यानेऽपि पत्रवचनं ब्रह्मव्यतिरिक्तारवगमपेक्षितमेव । अत्रायं पिण्डितोऽर्थ:- -यदा तु बक्षक- र्तृकमध्वर्य प्रदानं तदा पूर्वेण गतश्रिय इत्येतन्न भवति किं तु ब्रह्मकर्तृकप्रदानमात्र एवेति पूर्वव्याख्यायाम् । यदा तु ब्रह्मव्यतिरिक्तत्विकर्तृकता स्वी क्रियते तदैव पूर्वेण गतश्रिय इत्येतद्भवति नतु ब्रह्मकर्तृकता यामित्येतद्वितीयव्याख्यायामिति ।'

पूर्वेण गतश्रियः।

द्वारेणेति पूर्वसूत्राहिशेष्यस्यानुवृत्तिः । गता प्राप्ता श्रीर्य तस्य गतश्रियः । एताह शस्य यजमानस्योक्तव्यवस्थानुसारेण पूर्वेण हविर्धाने राज्ञः प्रपादनम् । ये गत्यर्थाम्ते प्राप्त्यर्था इति शास्त्रमर्यादया गमनार्थकधातोः प्राप्त्यर्थकावं ज्ञेयम् । गतश्रीशब्द. 'त्रयो वै गतश्रियः शुश्रुवान्यामणी राजन्यः' इति श्रुत्युक्ता प्रायाः । बाच्या १ ख, ग, क्रियेत।