पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- -

५६०

सत्याषाढविरचितं श्रौतसूत्रं- [ ७ सप्तमप्र- भते, एकधैवास्मिन्निन्द्रियं वीयं दधाति नास्मै भ्रातृव्यं जनयतीति सौत्रामण्यामेकयू- पस्यैव सिद्धान्तितत्वात् । पशुरशनाकुम्भीप्लक्षशाखावपाश्रपण्यो भिन्ना एव । मीमांस- कमते सजातीयपशुबहुत्वेऽपि कुम्म्यादि तदेवेति द्रष्टव्यम् ।

स प्रथमः सोमानाम् ।

सोमानां मध्ये सोऽग्निष्टोमः सोमः प्रकृतित्वात्प्रथमो भवतीति शेषः । सर्वेभ्यः सोमेभ्यः पूर्वमग्निष्टोमाख्यः सोमः कर्तव्यो न त्रिवृदादयस्तद्गुणविकारा नचान्य उक्थ्यादय एकाहा द्विरात्रादयोऽहीनाश्चेत्यर्थः । तथाचाग्निष्टोमं प्रस्तुत्य ब्राह्मणम्- तस्मादाहुन्येष्ठयज्ञ इति प्रजापति व ज्येष्ठः स ह्येतेनाग्रेऽयजतेति । प्रजापतेज्येष्ठत्वं प्रथमोत्पन्नत्वात् । तेनेव सर्वेभ्यः सोमेभ्यः पूर्वमग्निष्टोमस्यानुष्ठितत्वाज्येष्ठत्वम् । प्रजापतिर्यथा सर्वोत्पादकत्वाज्ज्येष्ठस्तथाऽग्निष्टोमोऽपि सर्वेभ्यः सोमेभ्यो धर्माणां समर्पणाज्ज्येष्ठः । प्रजापतेः सर्वोत्पादकत्वं हिरण्यगर्भः समवर्तताग्र इत्यादिषु मन्त्रेषु प्रतिपादितम् । हिरण्यगर्भः प्रजापतिरेव । प्रजापति हिरण्यगर्भ इति श्रुतेः । एवं चाग्नि- ष्टोमे ज्येष्ठत्वं नाम प्रकृतित्वमेव । छन्दोगब्राह्मणमप्यग्निष्टोमस्य प्रथमत्वमाह एष वाव प्रथमो यज्ञो यज्ञानां य एतेनानिष्ट्वाऽन्येन यजते कञपत्यमेव जायते वा प्रमीयत इति । अस्ति चाग्निष्टोम एव सर्वधर्माम्नानम् । अतोऽग्निष्टोम एव प्रकृतिः । अत एव प्रथमो भवति । उक्थ्यः षोडश्यतिरात्रोऽप्तोर्यामश्चेत्यग्निष्टोमस्य गुणविकारा भवन्तीति वक्ष्यमाणसूत्रा. स्पष्टमग्निष्टोमस्य प्रकृतित्वं द्रष्टव्यम् । भरद्वाजोऽपि मुस्पष्टमाह नाग्निष्टोमेनानिष्ट्वैतरैः क्रतुभिरितीति । यजेतेति शेषः । नन्विद सूत्रं व्यर्थ नाकृतायां प्रकृतौ विकृतिर्भवतीति शास्त्रान्तरप्रसिद्धन्यायेनैव सिद्धेरिति चेन्न । स्वशास्त्र एतादृशन्यायसिद्धयर्थमेवैतत्सूत्र• प्रणयनात्।

अतिरात्रमेके प्रथमं यज्ञमधीयते ।

अतिरात्रस्य प्रकृतित्वाभावेऽपि प्रकृतिभूताग्निष्टोमादपि पूर्वभावित्वमतिरात्रस्य वचनादेक आचार्या वदन्तीत्यर्थः । तच्च वचनं शाखान्तरादुन्नेयम् । अत्रातिरात्रो ज्योतिरतिरात्रो ग्राह्यः । तेन ज्योतिष ऋद्धिकाम इति वक्ष्यमाण योनिभेदेन जैमिनि. नोक्तोऽतिरात्रः प्रथमो न भवति । अत्रेदं सिद्धमतिरात्रस्य सोमात्पूर्वभाविस्वमुत्तर- मावित्वं वा । अतिरात्रव्यतिरिक्तानां ऋतूनां त्वादग्निष्टोमोत्तरभावित्वमेवेति । सोमा- नामतिरात्रो वा प्रथमो यज्ञ इत्येतावतैव विकल्पे सिद्ध एके, एकेषामित्येवं क्वचित्क- चिद्वचनं मङ्गलार्थ कृतं द्रष्टव्यम् । तच्च विशेषणैकशब्दस्मारितविशेष्यभूताचार्यस्मर- णरूपं ग्रन्थस्य निर्विघ्नपरिसमाप्तये ग्रन्थमध्ये तस्य निबन्धनं तु शिष्यशिक्षार्थम् । प्रकृते फलं तु कर्मण्यपि मध्ये मध्ये मङ्गलकरणम् । आचरन्ति च शिष्टा ग्रन्यादौ