पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०८ । सत्याषाढविरचितं श्रौतसूत्रं- [ सप्तमप्र- प्रशब्दस्ताडनमिव क्षेपणं द्योतयति । यवयास्मद्वेषो यवयारातीरिति लिङ्गात् । अराती. रित्यन्तो मन्त्रः।

रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवानिति प्राचा बर्हिषाऽवस्तृणाति ।

अत्र बर्हिःशब्दस्तृणजातिवाची नतु संस्कारवाचीति ज्ञेयम् । एवं च च्छेदनादयो बर्हिधर्मा न भवन्ति । तथा च प्रथमाध्याये चतुर्थपादे जैमिनिः-बहिराज्ययोरसंस्कारे शब्दलाभादतच्छब्द इति । मूत्रार्थस्तु - बर्हिराज्ययोरसंस्कारे ज़ातिमात्रे शब्दला- भाद्याज्ञिकप्रयोगेऽपि जात्यनुगमावहिलनातीत्यत्र च यहिस्तल्लुनातीतिवाक्यार्थानुगु- ण्यादन्यथाऽतिक्लिष्ट कल्पनापत्तेस्तच्छब्दः संस्कारनिमित्तकः शब्दो, नेति । प्रांचा प्राचीनाग्रेण बहिषा तृणेंनावाधः प्रदेशास्तृणाति अन्तहितान्करोति ।

रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवानिति हिरण्यमन्तर्धाय स्रुवेणाभिजुहोति ।

क्रमेणोपरवभूमिषु हिरण्यमन्तर्धाय तथैव मध्ये निधाय स्रवेणाभिनुहोति हिरण्यम. मिलक्षीकृत्य जुहोति । जुहोतिचोदितत्वात्स्वाहाकारः । दविहोमधर्मः । अग्न्योरन्तरा । गमने नात्र दोषः । तेनैव प्रत्यागमनम् । सुवग्रहणं जुहूव्यावृत्त्यर्थम् ।

रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवे इत्यधिषवणफलके प्रोक्षत्यौदुम्बरे कार्ष्मर्यमये पालाशे वा तष्टे प्रधिमुखे सꣳहिते पुरस्तात्समापिकर्ते पश्चाद्द्वयङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन वा पश्चादसꣳहिते संतृण्णे असंतृण्णे वा ।

फलकशब्दस्य नपुंसकलिङ्गत्वाद्वैष्णवे इत्येव पाठः । उत्तरमन्त्रेषु स्त्रीलिङ्गपाठस्तु छान्दसत्वेन समर्थनीयः । रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी इति केचित्पठन्ति । ययोरधि उपरि सोमः सूयते कण्ड्यते ते अधिषवणे, अधिषवणे च ते फलके चाधि. पवणफलके ते अनेन मन्त्रेग संस्कृताभिरद्भिः प्रोक्षति युगपदेव, द्विवचनलिङ्गात्संभ- वाच । तयोः स्वरूपमाह-औदुम्बरे इत्यादिना । औदुम्बरे उदुम्बरविकारभूते । बिल्वादित्वाद्विकारार्थेऽण्प्रत्ययः । कार्मयः श्रीपर्णीवृक्षस्तद्विकारभूते कामयमये । नित्यं वृद्धशरादिभ्य इत्यनेन शरादित्वान्नित्यं मयट्प्रत्ययः । पालाशे पलाशविकार. भूते । पलाशादिभ्यो वेत्यनेन वैकल्पिकोऽप्रत्ययः । तष्टे सर्वतः कपाटे इव । प्रधि- धनुराकारं चक्रस्य फलकं तस्यैव मुखं ययोस्ते प्रधिमुखे । संहिते संश्लिष्टे । एतादृशे पुरस्ताद्भवतः । सममूज । अपिरत्र च्छेदने किंचिद्विशेषं द्योतयितुम् । स च श्लैक्ष्ण्य- रूपः । अपिकतं लैक्ष्ण्यविशिष्टं छेदनं ययोस्ते समापिकर्ते । एतादृशे पश्चाद्भवतः । समीचीनत्वार्थको वा। तेन समीचीनच्छेदनं कर्तव्यमिति सिद्धं भवति । तच्च श्लैण्य- रूपमेव । अनेन पश्चात्प्रधिमुख ।। पावर्यते । पश्चात्कलकयोः पश्चिमप्रान्ते मध्ये i .