पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ७०७ । । न १५०पटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् ।


रक्षोहणो वलगहनः प्रोक्षामि वैष्णवानिति ।। १८ ।। यवमतीभिरद्भिरुपरवाꣳस्त्रिः प्रोक्षति ।

यवमतीमियवमिश्राभिः । यवो ययौ यवा वाऽऽसु सन्तीति विग्रहत्रयस्यापि प्रकृते स्वीकारे बाधकामावादेकेन यवेन द्वाम्यां यवाभ्यां त्रिभिश्चतुरादिभिर्वाऽपि यवैमिश्र- णम् । न यवसंख्यानियमः । अद्भिरिति वचनाहृयोक्तसंस्काराभावोऽत्र । त्रिनिरित्यपि पाठः कचित्पुस्तके दृश्यते । अयमेव पाठो युक्तः। सर्वेषां युगपत्प्रोक्षणस्य नियमेनासं- मवात् । एवंमनुपूर्वाण्येषां कर्माणि क्रियन्त इत्यनेनात्रापि क्रमस्य प्रापणात् । सूत्रा- स्तरे स्पष्टतया कपस्यैवोक्तत्वात् । उपरवमन्त्रस्तन्त्र स्यालोकवहुवचनात्, न संनिपा- तित्वादसंनिपातिकर्मणां विशेषाग्रहणे कालैकत्वात्सकृद्धचनमिति जैमिनिना सूत्रद्वये. नास्यार्थस्योक्तेश्च । उपरवमन्त्रातन्त्रं स्यात्, बहुवचनात् । लोके यथैकस्मिबहुवचनम. समर्थ तद्वदिहापीति पूर्वसूत्रार्थः । संनिपातित्वान्मन्त्रस्य कर्मादौ सनिपतनशीलत्वात, मत्रान्वकर्माद्योः संनिपतनशीलत्वात्करणमत्रत्वादिति यावत्करणमन्ने मन्त्रान्तेन कर्मा- दिसनिपातनियमात् । खननस्योपक्रमो मन्त्रान्तेन संनिपतितस्तदर्थ एव मन्त्रो नान्येषा. सुपरवाणामलमुपकर्तुम् । करणमन एतादृशविशेषग्रहणासकृद्धवचनं मन्त्रस्य भवति । अतः प्रातिपदिकमात्रं कारकमात्रं च विवक्षितं, बहुवचनं स्वेकस्मिन्नेव पूनार्थ प्रयुक्तमिति द्रष्टव्यम् । न च पाशानित्यत्रापि बहुवचनस्याविवक्षा स्यादिति वाच्यम् । बहुवचनविवक्षितत्वस्य सर्वथैवात्रासंभवेन दृष्टान्तवैषम्पेण पाशाधिकरण आपत्तेरभावात् । अतनिपातीनि कर्माणि यत्र मन्त्रान्तक्रियाद्योः संनिपातो नास्ति तान्यसंपातिकर्माणि तेषा मन्त्रक्रिययोरेकस्यान्तोऽपरस्याऽऽदिरित्ययं विशेषः । सोऽकरणमन्त्रे नास्ति । अतो विशेष(पा)प्रहणादुभयोः कालकत्वात्सकदेव वचनमक- रणमन्त्रस्य । तेनास्किरणमन्प्रत्याऽऽवृत्तिरिति उत्तरसूत्रार्थः । एकादशाध्याये चतुर्थे पादेऽस्ति । सूत्रे त्रिस्त्रिरिति पाठे सकृन्मन्त्रेण द्विस्तूष्णीमिति प्रत्युपरवम् । मन्त्रगर्त बडुवचनमनिममन्त्रगतबहुत्ववत्पूनार्थ ज्ञेयम् । त्रिरिति पाठेऽपि सकृदेव मन्त्रः संभ- चात् । असंभवे मन्त्रावृत्तिः क्रियासमाप्त्यनुरोधेन ।

रक्षोहणो वलगहनोऽवनयामि वैष्णवानिति यवमतीरपोऽवनयति ।

उपरवेषु यवमिश्ना अपः प्रक्षिपति । सर्वत्र मन्त्रावृत्तिः ।

यवोऽसीति यवं प्रास्यति ।

यवोऽसीति मन्त्रः एकवचनश्रवणाधवं प्रास्यतीत्यत्राप्येकवचनम् । अविवक्षितमेतदेक- वचनम् । तेन यहव एव यवाः प्रक्षेपणीयाः । तथा च बौधायनः-अथेषु यवान् प्रस्कन्दयति यवोऽसि खवयास्मद्वेषो यवयारातीरितीति । प्रासनं प्रक्षेपणम् । अत्र १ स. ग. शेषन।